अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः ।
अथा॒ सोमं॑ सु॒तं पि॑ब ॥
अ॒यम् । ते॒ । स्तोमः॑ । अ॒ग्रि॒यः । हृ॒दि॒ऽस्पृक् । अ॒स्तु॒ । शम्ऽत॑मः ।
अथ॑ । सोम॑म् । सु॒तम् । पि॒ब॒ ॥
हे इंद्र अयमस्माभिः क्रियमाणः स्तोमः स्तोत्रविशेषोऽग्रियः श्रेष्ठः सन् ते तव हृदिस्पृक् मनस्यंगीकृतः शंतमः सुखतमोऽस्तु । अथ स्तुतेरनंतरं सुतमभिषुतं सोमं पिब ॥ अग्रियः । अग्रादित्यनुवृत्तौ घच्छौ च । पा ४-४-११७ । इति घच् । चित्त्वादंतोदात्तः । हृदि स्पृशतीति हृदिस्पृक् । स्पृशोऽनुदके क्विन् । पा ३-२-५८ । तत्पुरुषे कृति बहुलं । पा ६-३-१४ । इत्यलुक् । क्विन्प्रत्ययस्य कुः । पा ८-२-६२ । इति शकरास्य कुत्वं । कृदुत्तरपदप्रकृतिस्वरत्वं । शंतमः । सुखकरद्रव्यवचनोऽत्र शंशब्दः ततस्तमप् । अत्र सुखप्रकर्षस्य गुणद्वारा गुणनिष्ठद्रवे संक्रांतत्वादद्रव्यप्रकर्ष इति निषेधात् किमेत्तिङव्ययेत्यादिना । पा ५-४-११ । आम् न भवति द्रव्यस्य स्वतः प्रकर्षाभावात् । ईदृगर्थ एव हि स निषेधः । अथा सोमं । संहितायां निपातस्येति दीर्घः ॥ ७ ॥