मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् ३

संहिता

अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ ।
ता वां॒ नेदि॑ष्ठमीमहे ॥

पदपाठः

अ॒नु॒ऽका॒मम् । त॒र्प॒ये॒था॒म् । इन्द्रा॑वरुणा । रा॒यः । आ ।
ता । वा॒म् । नेदि॑ष्ठम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

इंद्रावरुणा हे इंद्रावरुणौ अनुकाममस्मदीयाभिलाषमनु रायो धनस्यप्रदानेना तर्पयेथाम् । सर्वतोऽस्मांस्तृप्तान् कुरुतम् । वयं यदा यदा धनं कामयामहे तदा तदा प्रयच्छतमित्यर्थः । ता वां तादृशौ युवां नेदिष्ठमतिशयेन सामीप्यं यथा भवति तथा ईमहे । याचामहे कालविलंबमंतरेण धनं दातव्यमित्यर्थः । सप्तदशसु या च्ञा कर्मस्वीमह इति पठितं ॥ अनुकामम् । कामस्य पश्चादनुकामम् । अथवा कामे कामेऽनुकामम् । अनुरिह पश्चादर्थे । अथवा वीप्सालक्षणे यथार्थे । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति चत्वारो हि यथार्था गृहीताः । अव्ययं विभक्तीत्यादिना (पा २-१-६) अव्ययीभावसमासः । अव्ययीभावश्च (पा १-१-४१) इत्यव्ययसंज्ञायामप्ययादाप्सुपः (पा २-४-८२) इति प्राप्तसै लुकोऽपवादो नाव्ययीभावादतोऽम् । त्वपंचम्याः (पा २-४-८३) इति विभक्तेरमादेशः । समासस्येत्यंतोदात्तत्वम् । तर्पयेथाम् । तृपर्ण्यंताल्लोटो णिचश्च (पा १-३-७४) इत्यात्मनेपदम् । मध्यमद्विवचनमाथाम् । टेरेत्वं आमेतः ॥ पा ३-४-९० । इत्यामादेशः । शपि सत्यतोयेयः (पा ७-२-८०) इत्वाकारस्येयादेशः । आद्गुणो यलोपश्च । इंद्रावरुणा । सुपां सुलुगिति द्विवचनस्याकारः । आमंत्रिताद्युदात्तत्वम् । संहितायामाकारस्य ह्रस्वत्वम् । रायः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ता । सुपां सुलुगिति विभक्तेराकारः । पदात्परत्वाद्युवामित्यस्य वामादेशोऽनुदात्तः । नेदिष्ठम् । अतिशयेनांतिकम् । अतिशायन इष्ठन् । अंतिकवाढयोर्नेदसाधौ (पा ५-३-६३) इति नेदादेशः । यस्येति लोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । ई महे । ईङ् गतौ । ङित्त्वादात्मनेपदम् । बहुलं छंदसीति श्शनो लुक् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२