मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् ६

संहिता

सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
स॒निं मे॒धाम॑यासिषम् ॥

पदपाठः

सद॑सः । पति॑म् । अद्भु॑तम् । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् ।
स॒निम् । मे॒धाम् । अ॒या॒सि॒ष॒म् ॥

सायणभाष्यम्

अनुप्रवचनीयचरोर्होमे सदसस्पतिमित्येषा विनियुक्ता । तथा च गृह्ये मेखलामाबद्येति खंडे पठ्यते । आचार्यः समन्वारब्धे जुहुयात्सदसस्पतिमद्भुतम् । आ गृ १-२२-११ । इति ॥

मेधां लब्धुं सदसस्पतिमेतन्नामकं देवमयासिषम् । प्राप्तवानस्मि । कीदृशम् । अद्भुतमाश्चर्यकरम् । इंद्रस्य प्रियं सोमपाने सहचारित्वात् काम्यं कमनीयं सनिं धनस्य दातारं ॥ सदसः । षद्लृ विशरणादौ । सर्वधातुभ्योऽसुन् । नित्त्वादाद्युदात्तः । पतिम् । पातेर्डतिः (उ ४-५७) टलोपः । प्रत्ययस्वरः । प्रियम् । इगुपधज्ञाप्रीतिकरः कः । इयङादेशः । प्रत्ययस्वरः । काम्यं कामयतेरचो यत् । णेरनिटीति णिलोपः । यतोऽनाव इत्याद्युदात्तत्वम् । सनिम् । षणु दाने । धात्वादेः षः सः । अच इरित्यनुवृत्तौ खनिकष्यंज्यसिवसिसनिध्वनिग्रंथिचरिभ्यश्च (उ ४-१३९) इति इप्रत्ययः । प्रत्ययस्वरः । आयासिषम् । या प्रापणे । लुङ् । मिपोऽमादेशः । यमरमनमातां सक् च (पा ७-२-७३) इति सिच इडागमः । धातोः सगागमः निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५