मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् ९

संहिता

अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । सृ॒जामि॑ । सो॒म्यम् । मधु॑ ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे अग्ने पूर्वपीतये पूर्वकाले प्रवृत्ताय पानाय त्वां प्रति सोम्यं मधु सोमसंबंधिनं मधुररसमभि सृजामि । सर्वतः संपादयामि । अतस्त्वं मरुद्भिः सहात्रागच्छ ॥ अभि । एवमादीनामंत इत्यंतोदात्तत्वम् । त्वामौ द्वितीयाया इति त्वादेशः सर्वानुदात्तः । पूर्वपीतये । पूर्वा चासौ पीतिश्च । पुंवत्कर्मधारयेत्यादिना (पा ६-३-४२) पुंवद्भावः । सृजामि । सृज विसर्गे । मिपः पित्त्वादनुदात्तत्वम् । विकरणस्वरः । सोम्यम् । सोममर्हति यः । प्रत्ययस्वरेणांतोदात्तः । मधु । फलिपाटनमीत्यादिना (उ १-१९) उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । अन्यद्गतं ॥ ३७ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७