मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् ३

संहिता

तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥

पदपाठः

तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् ।
तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥

सायणभाष्यम्

नासत्याभ्यामश्विदेवप्रीत्यर्थं रथं तक्षन् । ऋभवो देवाः कंचिद्रथमतक्षन् । तक्षणेन संपादितवंतः । कीदृशम् । परिज्मानं परितो गंतारं सुखं उपर्युपवेशने सुखकरम् । किं च धेनुं कांचिद्गां तक्षन् । धातूनामनेकार्थत्वात्तक्षतिरत्र संपादनवाची । कीदृशीं धेनुम् । सबर्दुघां सबरः क्षीरस्य दोग्ध्रं ॥ तक्षन् । बहुलं छंदसीत्यडभावः । नासत्याभ्याम् । न विद्यते सत्यं ययोस्तावसत्यौ । न असत्यौ नासत्यौ । नभ्राण्नपादित्यादिना नलोपाभावः । परिज्मानम् । अजेः परिपूर्वस्य श्वन्नुक्षन्नित्यादिना (उ १-१५८) मन्प्रत्ययेऽकारलोप आद्युतात्तत्वं च निपातनात् । सबर्दुघाम् । सबः पयो दोग्धीति सबर्दुघा । दुहः कब्घश्च (पा ३-२-७०) इति कप् । सबरिति रेफांतं प्रातिपदकं क्षीरवाचीति संप्रदायविदः । कपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । समासे तृदुत्तरपदप्रकृतिस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः