मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् ५

संहिता

सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥

पदपाठः

सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता ।
आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥

सायणभाष्यम्

हे ऋभवो वो युष्माकं संबंधिनो मदासो मदहेतवः सोमा इंद्रेण चादित्येभिरादित्यैश्च समग्मत । संगताः । ऋभूणामिंद्रादित्यैः सह सोमापानं तृतीयसवनेऽस्ति । अत एवावाहनिगद आश्वलायनेनैवं पठितः । इंद्रमादित्यवंतमृभुमंतं विभुमंतं वाजवंतं बृहस्पतिमंतं विश्वदेव्यावंतमावहेति (आ ५-३) कीदृशेनेंद्रेण । मरुत्वता । मरुद्भिर्युक्तेन । अत एव मंत्रांतरमेवमाम्नायते । मरुद्भिरिंद्र सख्यं ते अस्तु । ऋग्वे ८-९६-७ । इति कीदृशैरादित्येभिः । राजभिर्दीप्यमानैः ॥ मदासः । माद्यंत्येभिरिति मदाः सोमाः । मदोऽनुपसर्गे (पा ३-३-६७) इत्यप् । तस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । आज्ज सेरसुगिति जसोऽसुगागमः । अग्मत । गमेः संपूर्वाल्लुङ् । समो गम्यृच्छेत्यादिना (पा १-३-२९) आत्मनेपदम् । झस्यादादेशः । मंत्रे घसेत्यादिना चेर्ल्लुक् । गमहनेत्यादिना (पा ६-४-९८) उपधालोपः । व्यवहिताश्चेति समो व्यवहितप्रयोगः । निघातः । मरुत्वता । मरुतोऽस्य संतीति मरुत्वान् । तसौ मत्वर्थ इति भसंज्ञया पदसंज्ञाया बाधितत्वाज्जश्त्वाभावः । झयः (पा ८-२-१०) इति मतुपो वत्वम् । आदित्येभिः । बहुलं छंदसीति भिस ऐसादेशाभावे बहुवचने झल्येदित्येवम् । राजभिः । राजन्शब्दस्य कनिनंतत्वेन नित्त्वादाद्युदात्तत्वं ॥ १ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः