मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् ६

संहिता

उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
अक॑र्त च॒तुर॒ः पुनः॑ ॥

पदपाठः

उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् ।
अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥

सायणभाष्यम्

उतापि च त्वष्टुरेतन्नामकस्य देवस्य संबंधी तक्षणव्यापारः । नवं नूतनं त्यं चमसं तं सोमधारणक्षमं काष्ठपात्रविशेषं निष्कृतं निःशेषेण संपादितमकरोदिति शेषः । तक्षणव्यापारकुशलस्य त्वष्टुः शिष्या ऋभवस्तेन निर्मितं तमेकं चमसं पुनरपि चतुरोऽकर्त । चतुर्धा विभक्तांश्चमसान्कृतवंतः । एकस्य चतुर्विधत्वकरणरूपोऽयमर्थो मंत्रांतरेऽपि विस्पष्टः । एकं चमसं चतुरस्कृणोतन । ऋग्वे १-१६१-२ ॥ इति ॥ नवं । णु स्तुतौ । नूयत इति नवं । कर्मणि अप्प्रत्ययः । स हि घञोऽपवादत्वाध्घञर्थे सर्वत्र भवति । घञ् प्रत्ययश्चाकर्तरि च कारिके संज्ञायां । पा ३-३-१९ । इति कर्तृव्यतिरिक्ते सर्वत्र कारके भवति । यद्यपि तत्र संज्ञायामित्युक्तं तथापि चकारस्य संज्ञाव्यभिचारार्थत्वादसंज्ञायामपि भवत्येव । संबध्यत इति संबंधः । कर्मणि घञित्युक्तं । त्वष्टुः । तक्षू त्वक्षू तनूकरणे । औणादिकस्तृन् । ऊदित्वात्पक्ष इडभावः पा ७-२-४४ । स्को संयोगाद्योरंते च । पा ८-२-२९ । इति ककारलोपः । निष्कृतं । कृञो निरुस्पष्टात्कर्मणि क्तः । प्रादिसमासे नित्यं समासेऽनुत्तरपदस्थस्य । पा ८-३-४५ । इति षत्वं । अत्र कर्तृकर्मणोः कृति । पा २-३-६५ । इति प्राप्ता षष्ठी यद्यपि न लोकाव्ययेति निषिद्धा । पा २-३-६९ । तथापि कर्तुः शेषत्वेन विवक्षितत्वात्कर्तृकरणयोस्तृतीया । पा २-३-१८ । इत्येतस्याः प्राप्तेः शैषिकी षष्ठी । यथा कर्मणि शेषत्वेन विवक्षिते । पा २-३-५० । माषाणामश्नीयादिति । गतिरनंतर इति निसउदात्तत्वं । अकर्त । आकृषत । कृञो लुङि झस्य व्यत्ययेन तादेशः । मंत्रे घसेत्यादिना च्लेर्लुक् । छंदस्सुभयथेति तिङ अर्धधातुकत्वाद्ङित्वाभावेन गुणः । चतुरः । चतुरः शसि । पा ६-१-१६७ । इत्युकार उदात्तः । पुनः । स्वरादिष्वाद्युदात्तः । पठितः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः