मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् ८

संहिता

अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥

पदपाठः

अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ ।
भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥

सायणभाष्यम्

वह्नयश्चमसादिसाधननिष्पादनेन यज्ञस्य वोढार ऋभवोऽधारयंत । पूर्वं मनुष्यत्वेन मरणयोग्या अप्यमृतत्वलाभेन प्राणान्धारितवंतः । तथा च मंत्रांतरमाम्नायते । मर्तासः संतो अमृतत्वमानशुः । ऋग्वे १-११०-४ । इति । किंचैते सुकृत्यया यज्ञ साधनद्रव्यसंपादनरूपेण शोभनव्यापारेण देवेषु मध्ये स्थिता यज्ञियं यज्ञार्हं भागं हविर्लक्षणमभजंत । सेवितवंतः । अयमर्थः सौधन्वना यज्ञियं भागमानश । ऋग्वे । ३-६०-१ । इत्यादिमंत्रांतरे विस्पष्वः । ब्राह्मणेऽप्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयन् । ऐ ब्रा ३-३० । इत्याद्युपाख्यानं विस्पष्टं ॥ वह्नयः । निदित्यनुवृत्तौ वहिश्रीत्यादिना निप्रत्ययः । अभजंत । पादादित्वादनिघातः । सुकृत्यया । विभाषा कृवृषोः पा ३-१-१२० । इति कृञः कर्मणि क्यप् । शोभनं कृत्यं यस्या भजनक्रियायाः सा सुकृत्या बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ननु कृत्यशब्दे क्यपः पित्त्वेनानुदात्तत्वाद्धातुस्वरेणादिरुदात्तः । ततश्चाद्युदात्तं द्व्यच्छंदसीत्यनेनाद्युदात्तत्वेन भवितव्यम् । तेन हि पुरस्तादपवादेन परमपि नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं बाध्यत इत्युक्तम् । एवं तर्हि कृञः श च (पा ३-३-१००) इति स्त्रियां भावे क्यप्प्रत्ययांतः कृत्याशब्दः । क्यपः पित्त्वेऽपि व्यत्ययेनोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भागम् । कर्षात्वतः (पा ६-१-१५९) इत्यंतोदात्तः । यज्ञियम् । यज्ञमर्हतीत्यर्थे यज्ञर्त्विग्भ्यां घखञौ (पा ५-१-७१) इति घः । तस्य इयादेशः । प्रत्ययस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः