मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ६

संहिता

अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि ।
तस्य॑ व्र॒तान्यु॑श्मसि ॥

पदपाठः

अ॒पाम् । नपा॑तम् । अव॑से । स॒वि॒तार॑म् । उप॑ । स्तु॒हि॒ ।
तस्य॑ । व्र॒तानि॑ । उ॒श्म॒सि॒ ॥

सायणभाष्यम्

अत्र होता सामगमृत्विजमन्यं वा शस्त्रिणं ब्रूते । अवसेऽस्मान्रक्षितुं सवितारमुप स्तुहि । तस्य सवितुः संबंधीनि व्रतानि कर्माणि सोमयागादिरूपाण्युश्मसि । कामयामहे । कीदृशं सवितारम् । अपां नपातं जलस्य न पालकम् । संतापेन शोषक मित्यर्थः ॥ अपाम् । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । नपातम् । पा रक्षणे । अस्य शत्रंतः पाच्छब्दः । तस्य नञा समासे नभ्राण्नपादित्यादिना नलोपप्रतिषेध इति वृत्तिकारः । अग्निर्ह्यपो न पाति तच्छोषकत्वात् । तर्हि कथमपामिति षष्ठी । न लोकाव्ययनिष्ठाखलर्थेति (पा २-३-६९) कर्मणि षष्ठ्याः प्रतिषेधादिति चेत् । तर्ह्येषा शेषलक्षणास्तु । अग्न्यादित्यावपां कारणतया संबंधिनावग्नेराप इति श्रुतेः । आदित्याच्जायते वृष्टिः । मनु ३-७६ । इति स्मृतेश्च । अस्मिन्पक्ष उगिदचामिति नुमभावोऽपि निपातनादेवेति मंतव्यम् । पातेः क्विबंतस्य तुग्वा निपातनाद्द्रष्टव्यः । अथवा न पातयतीति नपात् । पग्लृ गताविति धातोर्ण्यंतात्क्विप् । अग्न्यादित्यौह्यपां न प्रापकौ प्रत्युत तच्छोषकौ । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अवसे । तुमर्थे सेसेनित्यादिना असेन् । नित्त्वादाद्युदात्तः । उश्मसि । वश कांतौ । अदिप्रभृतिभ्य इति शपो लुक् । इंदतो मसिरितीकारोपजनः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः