मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ९

संहिता

अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
त्वष्टा॑रं॒ सोम॑पीतये ॥

पदपाठः

अग्ने॑ । पत्नीः॑ । इ॒ह । आ । व॒ह॒ । दे॒वाना॑म् । उ॒श॒तीः । उप॑ ।
त्वष्टा॑रम् । सोम॑ऽपीतये ॥

सायणभाष्यम्

अग्निष्टोमे प्रातःसवनेऽग्ने पत्नीरिहा वहेति नेष्टुः प्रस्थितयाज्या । प्रशास्ता ब्राह्मणाच्छंसीति खंडे सूत्रितम् । अग्ने पत्नीरिहा वहोक्षान्नाय वशान्नाय । आ ५_५ । इति ॥

हे अग्नेः उशतीः कामयमाना देवानां पत्नीरिंद्राण्याद्या इह देवय जनदेश आ वह । तथा त्वष्टारं देवं सोमपीतये सोमपानार्थमुप समीप आ वह ॥ पत्नीः । डत्यंतः पतिशब्द आद्युदात्तः । पत्युर्नो यज्ञसंयोगे (पा ४-१-३३) इति ङीप् । तत्संनियोगेन नकारश्च ङीपः पित्त्वाड्डुतिस्वर एव । उशतीः । वश कांतौ । लटः शतृ । अदिप्रभृतिभ्यः शप इति शपो लुक् । शतुर्ङित्त्वाद्ग्रहिज्यादिना संप्रसारणम् । उगितश्चेति ङीप् । शतुरनुम इति ङीबुदात्तः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः