मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ११

संहिता

अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑ः ।
अच्छि॑न्नपत्राः सचन्ताम् ॥

पदपाठः

अ॒भि । नः॒ । दे॒वीः । अव॑सा । म॒हः । शर्म॑णा । नृ॒ऽपत्नीः॑ ।
अच्छि॑न्नऽपत्राः । स॒च॒न्ता॒म् ॥

सायणभाष्यम्

देवीर्देव्यो देवपत्न्योऽवसा रक्षणेन महो महता शर्मणा च सुखेन च सह नोऽस्मानभि सचंताम् । आभिमुख्येन सेवंताम् । कीदृश्यो देव्यः । नृपत्नीर्मनुष्याणां पालयित्र्यः अच्छिन्नपत्रा अच्छिन्नपक्षाः । न हि पक्षिरूपाणां देवपत्नीनां पक्षाः केनचिच्छिद्यंते ॥ देवीः । पुंयोगादाख्यायाम् (पा ४-१-४८) इति ङीषंतः । प्रत्ययस्वरेणांतोदात्तः । दीर्घाज्जसि चेति प्रतिषेधस्य वा छंदसीति पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । अवसा । अव रक्षणे । असुन् । नित्त्वादाद्युदात्तः । महः । मह पूजायाम् । क्विप् । सुपां सुपो भवंति (म ७-१-३९) इति तृतीयैकवचनस्य ङसादेशः । सावेकाच इति विभक्तेरुदात्तत्वम् । नृपत्नीः । समासांतोदात्तत्वे प्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । अच्छिन्नपत्राः । न च्छिन्नान्यच्छिन्नानि । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अच्छिन्नानि पत्राणि यासां ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः