मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १६

संहिता

अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥

पदपाठः

अतः॑ । दे॒वाः । अ॒व॒न्तु॒ । नः॒ । यतः॑ । विष्णुः॑ । वि॒ऽच॒क्र॒मे ।
पृ॒थि॒व्याः । स॒प्त । धाम॑ऽभिः ॥

सायणभाष्यम्

प्रातःसवने सोमातिरेक एकं शस्त्रं शंसनीयम् । अत्रातो देवा इत्याद्याः षडृचः । सोमातिरेक इति खंडे सूत्रितम् । महा इंद्रो य ओजसातो देवा अवंतु न इत्यैंद्रीभिर्वैष्णवीभिश्च (आ ६-७) इति ॥ आप्तोर्यामेऽच्छावाकातिरिक्तोक्थ्येऽप्येताः षडृचः स्तोत्रियानुरूपार्थाः । तथा च यस्य पशव इति खंडे सूत्रितम् । अतो देवा अवंतु न इति स्तोत्रियानूरूपौ (आ ९-११) इति ॥ दर्शपूर्णमासयोः प्रायश्चित्तहोमेऽप्याद्ये विनियुक्ते । तथैव वेदं पत्न्या इति खंडे सूत्रितम् । अतो देवा अवंतु न इति द्वाभ्यां व्याहृतिभिश्च (आ १-११) इति ॥ याज्यानुवाक्ययोर्मध्ये लौकिकभाषणेऽतो देवा इत्येषा जप्या । सूत्रितं हि । आपद्यतो देवा अवंतु न इति जपेत् (आ १-५) इति ॥

विष्णुः परमेश्वरः सप्तधामभिः सप्तभिर्गायत्र्यादिभिश्छंदोभिः साधनभूतैर्यतः पृथिव्या यस्माद्भूप्रदेशाद्विचक्रमे । विविधं पादक्रमणं कृतवान् अतोऽस्मात्पृथिवीप्रदेशान्नोऽस्मान्देवा अवंतु । विष्णोः पृथिव्यादिलोकेषु च्छंदोभिः साधनैर्जयं तैत्तरीया आमनंति । विष्णुमुखा वै देवाश्छंदोभिरमांल्लोकानपजय्यमभ्यजयन् । तै सं ५-२-१-१ । इति । विष्णोस्त्रिविक्रमावतारे पादत्रयक्रमणस्य पृथिव्यपादानम् । पृथिवीप्रदेशाद्रक्षणम् । नाम भूलोके वर्तमानानां पापनिवारणं ॥ अतः एतच्छब्दात्वंचम्यास्तसिल् (पा ५-३-७) इति तसिल् । एतदोऽश् (पा ५-३-५) इत्यशादेशः । लित्स्वरेणाकार उदात्तः । यतः । तसिलः प्राग्दिशो विभक्तिः (पा ५-३-१) इति विभक्तिसंज्ञायां त्यदाद्यत्वम् । लित्स्वरः । विष्णुःविषेः किच्च (उ ३-३९) इति नुप्रत्ययः । कित्त्वान्न गुणः । निदित्यनुवृत्तेराद्युदात्तत्वम् । विचक्रमे । सुबिति योगविभागाद्विशब्दस्य समासः । समासांतोदात्तत्वम् । यद्वृत्तयोगान्न निघातः । सप्त । सुषां सुलुगिति भिसो लुक् । धामभिः दधातेरातो मनन्निति मनिन् । नित्स्वरः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः