मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १६

संहिता

अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।
पृ॒ञ्च॒तीर्मधु॑ना॒ पयः॑ ॥

पदपाठः

अ॒म्बयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् ।
पृ॒ञ्च॒तीः । मधु॑ना । पयः॑ ॥

सायणभाष्यम्

अपोनप्त्रीय एकधनासूपानीतासु स्वयमनुगच्छन्नंबय इति द्वे अनुब्रूयात् । तृतीययापो देवीरित्यनयैकधनासु हविर्धानं प्रविष्वासु स्वयमनुप्रविशेत् । तथैव सूत्रितम् । अंबयो यंत्यध्वभिरिति तिस्र उत्तमयानुप्रपद्येत (आ ५-१) इति ॥

अध्वरीयतामध्वरमात्मन इच्छतामस्माकमंबयो मातृस्थानीया अपः । तथा च कौषीतकिब्राह्मणे समाम्नायते । अंबयो यंत्यध्वभिरित्यापो वा अंबय इति । ता आपोऽध्वबिर्देवयजनमार्गैर्यंति । गच्छंति । कीदृश्य आपः । जामयो हितकारिण्यो बंधवः । तथा मधुना माधुर्यरसेन युक्तं पयः पृंचतीर्गवादिषु योजयंत्यः ॥ अंबयः । रबि लबि अबि शब्दे । एतस्मादच इः (उ ४-१३८) इति प्रकरणे बाहुलतादिः । प्रत्ययस्वरः । अध्वभिः । अदेर्ध च (उ ४-११५) इति क्वनिप् । पित्त्वात्प्रत्ययस्यानुदात्तत्वे धातुस्वरः । जामयः । जमु अदने । बाहुलकादिः । अध्वरीयताम् । अध्वरशब्दात्सुप आत्मनः क्यजिति क्यच् । क्यचि चेतीत्वम् । अपुत्रादीनामिति वक्तव्यम् (म ७-४-३५) इति वचनान्न छंदस्यपुत्रस्येतीत्वनिषेधाभावः । सर्वे विधयश्छंदसि विकल्प्यंत इति कव्यध्वरपृतनस्य (पा ७-४-३९) इत्यकारलोपोपि न भवति । क्यच्प्रत्ययांतधातोर्लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेशः । एकादेश उदात्तेनोदात्त इत्यतोदात्तत्वे सति शतुरनुमो नद्यजादी इति षष्ठ्या उदात्तत्वम् । पृंचतीः । पृचीसंपर्के । लटः शतृ । रुधादिभ्यः श्नम् । श्नसोरल्लोपः । अनुस्वारपरसवर्णौ । उगितश्चेति ङीप् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । शतुरनुम इति ङीप उदात्तत्वं ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११