मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १७

संहिता

अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑ः स॒ह ।
ता नो॑ हिन्वन्त्वध्व॒रम् ॥

पदपाठः

अ॒मूः । याः । उप॑ । सूर्ये॑ । याभिः॑ । वा॒ । सूर्यः॑ । स॒ह ।
ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥

सायणभाष्यम्

या अमूरापः सूर्य उप समीपेनावस्थिताः । आपः सूर्ये समाहिता इति श्रुत्यंतरात् । वाथवा सूर्यो याभिरद्भिः सह वर्तते । पूर्वत्रापां प्रधान्यमुत्तरत्र सूर्यस्येति विशेषः । तास्तादृश्य आपो नोऽस्मदीयमध्वरं यागं हिन्वंतु । प्रीणयंतु ॥ याभिः । सावेकाच इति विभक्त्युदात्तस्यन गोश्वन्साववर्णेति प्रतिषेधः । शेषा तु प्रक्रिया स्पष्टा ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११