मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १८

संहिता

अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिब॑न्ति नः ।
सिन्धु॑भ्य॒ः कर्त्वं॑ ह॒विः ॥

पदपाठः

अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गावः॑ । पिब॑न्ति । नः॒ ।
सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥

सायणभाष्यम्

नोऽस्मदीया गावो यत्र यास्वप्सु पिबंति पानं कुर्वंति ता आपो देवीरुप ह्वये । आह्वयामि । सिंधुभ्यः स्यंदनशीलाभ्योऽद्भ्यो देवताभ्यो हविः कर्त्वम् । अस्माभिः कर्तव्यं ॥ अपः । ऊडिदमित्यादिना शस उदात्तत्वम् । पिबंति । प्राघ्रेत्यादिना । पिबादेशः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वं ॥ निपातैर्यद्यदीत्यादिना निघाताभावः । कर्त्वम् । डुकृञ् करणे । कृत्यार्थे तवैकेन्केन्यत्वनः (पा ३-४-१४) इति कर्मणि त्वन्प्रत्ययः । गुणः । नित्सर्वेणाद्युदात्तत्वं ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११