मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् २०

संहिता

अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥

पदपाठः

अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् । आपः॑ । च॒ । वि॒श्वऽभे॑षजीः ॥

सायणभाष्यम्

कारीर्यामुत्तरस्याज्यभागस्याप्सु म इत्येषानुवाक्या । वर्षकामेष्टिरिति खंडेऽप्स्वग्ने सधिष्टवाप्सु मे सोमो अब्रवीत् (आ २-१३) इति सूत्रितं ॥

अप्सु जलेष्टंतर्मध्ये विश्वानि भेषजा सर्वाण्यौषधानि संतीति मे मह्यं मंत्रदर्शिने मुनये सोमो देवोऽब्रवीत् । तथा विश्वशंभुवं सर्वस्य जगतः सुखकरमेतन्नामकं चाग्निं चाप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तरीया अग्नेस्त्रयो ज्यायांस इत्यनुवाके सोऽपः प्राविशदित्यग्नेरप्सु प्रवेशमामनंति । तै सं २-६-६-१ । लतागुल्मवृक्षमूलादीनामौषधानां वृष्टिजन्यत्वेन जलवर्तित्वं प्रसिद्धम् । विश्वभेषजीः । विश्वानि भेषजानि यासु तथाविधा अपोऽप्यब्रवीत् ॥ भेषजा । सुपां सुलुगित्याकारः । विश्वशंभुवम् । भवतेरंतर्भावितण्यर्थात् क्विप् । व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य । बहुव्रीहौ विश्वं संज्ञायाम् (पा ६-२-१०६) इति पूर्वपदांतोदात्तत्वम् । आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अप्तृन्नित्यादिनोपधादीर्घः । विश्वभेषजीः । विश्वशंभुरितिवत् ॥ ११ ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११