मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् २३

संहिता

आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥

पदपाठः

आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥

सायणभाष्यम्

पशावाहवनीयोपस्थान आपो अद्यान्वचारिषमित्येषा । मनोतायै संप्रेषित इति खंडे सूत्रितम् । एत्योपतिष्ठंत आपो अद्यान्वचारिषम् (आ ३-६) इति ॥

अद्यास्मिन्दनेऽवभृथार्थमापोऽन्वचारिषम् । जलान्यनुप्रविष्टोऽस्मि । प्रविश्श च रसेन जलसारेण समगस्महि । संगताः स्मः । हे अग्ने पयस्वान् जले वर्तमानत्वेन पयोयुकस्त्वमा गहि । अस्मिन्कर्मण्यागच्छ । तं मा तादृशं स्नातं मां वर्चसा तेजसा सं सृज । संयोजय ॥ आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अचारिषम् । चर गत्यर्थः । लुङि च्लेः सिच् । अर्धधातुकस्येड्वलादेः (पा ७-२-३५) इतीट् । नेट (पा ७-२-४) इति वृद्धिप्रतिषेधेप्राप्ते तदपवादतयातो ल्रांतस्य (पा ७-२-२) इत्युपधाया वृद्धिः । अगस्महि । समो गम्यृच्छीत्यात्मनेपदम् (पा १-३-२९) च्लेः सिच् । मंत्रे घसेत्यादिना च्लेर्लुगभावश्भांदसः । एकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । वा गमः (पा १-२-१३) इति सिचः कित्त्वादनुदात्तोपदेशेत्यादिदानुनासिकलोपः । गहि । लोट गमेः सिपो हिः । अपित्वेन ङित्त्वादनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अतो हेरिति लुग्न भवति । असिद्धवदत्राभादिति मलोपस्यासिद्धत्वात् ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२