मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् २

संहिता

अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥

पदपाठः

अ॒ग्नेः । व॒यम् । प्र॒थ॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।
सः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥

सायणभाष्यम्

इत्थं प्रथमयर्चा विचिकित्सां क्वत्वा प्रजापते सकाशात्तं देवमग्निं निश्चित्यानया तुष्टाव । तथा च श्रूयते । तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा । ऐ ब्रा । ७-१६ । इति । पूर्ववद्योजना । दाद्ददातु दृशेयं पश्यानीत्येवमाशीः परत्वेन पदद्वयं योज्यं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३