मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् ३

संहिता

अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् ।
सदा॑वन्भा॒गमी॑महे ॥

पदपाठः

अ॒भि । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् ।
सदा॑ । अ॒व॒न् । भा॒गम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

प्रथमे छंदोमे वैश्वदेवशस्त्र अभि त्वा देव सवितरिति सावित्रस्तृचः सूक्तस्थानीयः । अथ छंदोमा इति खंडेऽभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवा (आ ८-९) इति सूत्रितं ॥ अभित्वेत्येषाग्निमंथनेऽपि विनियुक्ता । प्रातर्वैश्वदेव्यामिति खंडेऽभि त्वा देव सवितर्मही द्यौः पृथिवी च नः (आ २-१६) इति सूत्रितम् । श्रूयते च । अभि त्वा देव सवितरिति सावित्रीमन्वाह । ऐ ब्रा १-१६ । इति ॥ तथा प्रवर्ग्येऽप्येषा विनियुक्ता । अथोत्तरमिति खंडेऽभि त्वा देव सवितः समी वत्सं न मातृभिः । अ ४-७ । इति सूत्रितं ॥ तथा ग्रावस्तोत्रेऽपि । एतस्मिन्काले ग्रावस्तुदिति खंडे मध्यमस्वरेणेदं सवनमभि त्वा देव सवितः । अ । ५-१२ । इति सूत्रितं ॥

अथाग्निना प्रेरितः सन्सवितारमभि त्वेत्यनेन तृचेन प्रार्थयते । तथैव श्रूयते । तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन । ऐ ब्रा ७-१६ । इति । हे सदावन् सदा सर्वदा रक्षक हे सविर्तदेव वार्याणां वरणीयानां धनानामीशानां स्वामिनं त्वां प्रति भागं भजनीयं धनमभि सर्वत ईमहे । याचामहे ॥ ईशानम् । ईश ऐश्वर्ये लटः शानच् । तास्यनुदात्तेदिति लसार्वधातुकानुदात्तत्वे धातुस्वरः । वार्याणाम् । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वम् । अवन् । आमंत्रितनिघातः । भागम् । कर्षात्वत इति घञोंऽत उदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३