मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् ७

संहिता

अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।
नी॒चीना॑ः स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ॥

पदपाठः

अ॒बु॒ध्ने । राजा॑ । वरु॑णः । वन॑स्य । ऊ॒र्ध्वम् । स्तूप॑म् । द॒द॒ते॒ । पू॒तऽद॑क्षः ।
नी॒चीनाः॑ । स्थुः॒ । उ॒परि॑ । बु॒ध्नः । ए॒षा॒म् । अ॒स्मे इति॑ । अ॒न्तः । निऽहि॑ताः । के॒तवः॑ । स्यु॒रिति॑ स्युः ॥

सायणभाष्यम्

पूतदक्षः शुद्धबलो वरुणो राजाबुध्ने मूलरहितेंऽतरिक्षे तिष्ठन्वनस्य वननीयस्य तेजसः स्तूपं संघमूर्ध्वमुपरिदेशे ददते । धारयति । नीचीनाः स्थुः । ऊर्ध्वदेशे वर्तमानस्य वरुणस्य रश्मय इत्यध्याहार्यम् । ते ह्यदोमुखास्तिष्ठंति । एषां रश्मीनां बुध्नो मूलमुपरि तिष्ठतीति शेषः । तथा सति केतवः प्रज्ञापकाः प्राणा अस्मेऽस्मास्वंतर्निहिताः स्थापिताः स्युः । मरणं न भविष्यतीत्यर्थः ॥ अबुध्ने । न विद्यते बुध्नो मूलमस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । स्तूपम् । स्त्यै शब्दसंघातयो । स्त्यः संप्रसारणमूच्छेति पप्रत्ययः । तत्संनियोगेन यकारस्य संप्रसारणं परपूर्वत्व ऊकारादेशश्च । निदित्यनुवृत्तेराद्युदात्तत्वम् । ददते । भौवादिकः । नीचीनाः । निपूर्वादंचतेर्ऋृत्विगित्यादिना क्विना । अनि दितामिति नलोपः । न्यच् शब्दात्स्वार्थे विभाषांचेरदिक्स्त्रियाम् (पा ५-४-८) इति खः अयन्नित्यादिना तस्येनादेशः । आयनादिषूपदेशिवद्वचनम् । स्वरसिद्ध्यर्थम् । पा ७-१-२-१ । इति वचनादीकार उदात्तः । अच इत्यकारलोपे चाविति दीर्घत्वम् । स्थुः । गातिस्थेत्यादिना (पा २-४-७७) सिचो लुक् । अतः (पा ३-४-११०) इति झेर्जुसादेशः । उस्यपदांतात् (पा ६-१-९६) इति पररूपत्वम् । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । अस्मे । सुपां सुलुगिति सप्तम्याः शेअदेशः । निहिताः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । स्युः । अस्तेर्लिङि श्नसोरल्लोपः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४