मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् ८

संहिता

उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥

पदपाठः

उ॒रुम् । हि । राजा॑ । वरु॑णः । च॒कार॑ । सूर्या॑य । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।
अ॒पदे॑ । पादा॑ । प्रति॑ऽधातवे । अ॒कः॒ । उ॒त । अ॒प॒ऽव॒क्ता । हृ॒द॒य॒ऽविधः॑ । चि॒त् ॥

सायणभाष्यम्

वरुणो राजा सूर्याय सूर्यस्य पंथां मार्गमुरुं विस्तीर्णं चकार । हिशब्दः प्रसिद्धौ । उत्तरायणदक्षिणायनमार्गस्य विस्तारः प्रसिद्धः । किमर्थमेवं कृतवानिति तदुच्यते । अन्वेतवा उ । अनुक्रमेणोदयास्तमयौ गंतुमेव । तथापदे पादरहितेंऽतरिक्षे पादा प्रतिधातवे । पादौ प्रक्षेप्तुम् । अकः । मार्गं कृतवान् । पूर्वत्र रथस्य मार्गः अत्र पादयोरिति विशेषः । यद्वा । अपदे यूपे बद्धेन मया गंतुमशक्ये भूप्रदेशे पादौ प्रक्षेप्तुमुपायं बंधविमोचनरूपं करोत्वित्यर्थः । उतापि च हृदयाविधश्चिदस्मदीयवेधकस्य शत्रोरप्यपवक्तापवदिता निराकर्ता भवतु ॥ चकार । लिट्स्वरेणाकार उदात्तः । हि चेति निघातप्रतिषेधः । पंथाम् । पथिमथ्यृभुक्षामात् (पा ७-१-८५) इति द्वितीयायामपि व्यत्ययेनात्वम् । पथिन्शब्दस्य पतेस्थ च (उ ४-१२) इति प्रत्ययांतत्वेनांतोदात्तत्वे प्राप्ते पथिमथोः सर्वनामस्थाने (पा ६-१-१९९) इत्याद्युदात्तत्वम् । अन्वेत वै । अनुपूर्वादेतेस्तुमर्थे सेसेनिति तवैप्रत्ययः । तवै चांतश्च युगपत् (पा ६-२-५१) इत्याद्यंतयोरुदात्तत्वम् । पादा । सुपां सुलुगित्याकारः । प्रतिधातवे । दधातेस्तुमर्थ इति सूत्रेणैव तवेन्प्रत्ययः । तादौ च निति (पा ६-२-५०) इति गतेः प्रकृतिस्वरत्वम् । अकः करोतेश्छंदसिलुङ् लङ् लिट इति लोडर्थे लुङ् । तस्य तिप् । मंत्रे घसेत्यादिना (पा २-४-८०) च्लेर्लुक् । गुणो रपरत्वम् । हल्ङ्याब्भ्यः (पा ६-१-६८) इति तिपो लोपः । आडागमः । हृदयाविधः । हृञ् हरणे । वृह्रोः षुग्दुकौ च । उ । ४ । १०० । इति कयन् । व्यध ताडने । क्विप् । नहिवृतीत्यादिना (पा ६-३-११६) पूर्वपदस्य दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४