अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥
अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ ।
अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥
अमी रात्रावस्माभिर्दृश्यमाना ऋक्षाः सप्त ऋषयः । तथा च वाजसनेयिन आमनंति । ऋक्षा इति ह स्म वै पुरा सप्त ऋषीनाचक्षत इति । यद्वा । ऋक्ष्वाः सर्वेऽपि नक्षत्रविशेषाः । ऋक्षाः स्तृभिरिति नक्षत्राणाम् (नि ३-२०) इति यास्केनोक्तत्वात् । उच्चा उच्चैरुपरि द्युप्रदेशे निहितासः स्थापिता ये संति ते ऋक्षा नक्तं रात्रौ ददृश्रे । सर्वैरपि दृश्यंते । दिवाहनि कुह चिदीयुः । क्वापि गच्छेयुः । न दृश्यंत इत्यर्थः । वरुणस्य राज्ञो व्रतानि कर्माणि नक्षत्रदर्शनादिरूपाण्यदब्दानि केनाप्यहिंसितानि । किंच वरुणस्याज्ञयैव चंद्रमा नक्तं रात्रौ विचाकशत् विशेषेण दीप्यमान एति । गच्छति ॥ निहितासः । आज्जसेरसुक् । थाथादिस्वरेणोत्तरपदांतोदात्तत्वे प्राप्ते (पा ६-२-१४४) गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । ददृश्रे । दृशेर्लिट इरयो रे (पा ६-४-७६) इति रेआदेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । कुह । वा ह च छंदसि (पा ५-३-१३) इति किंशब्दादुत्तरस्य त्रलो हादेशः । कु तिहोः (पा ७-२-१०४) इति किंशब्दस्य कुआदेशः । स्थानिवद्भावाल्लित्सर्वेणाद्युदात्तत्वम् । विचाकशत् । कशेर्दीप्त्यर्थाद्यङ् लुगंताच्छतृप्रत्ययः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । समासे कृत्स्वरः । यद्वा काशतेर्वा व्यत्ययेनोपधाह्रस्वत्वम् । चंद्रमाः । चंद्रे माङो डित् (उ ४-२२७) इत्यसिप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ १४ ॥ १० ॥