मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् १२

संहिता

तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
शुन॒ःशेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥

पदपाठः

तत् । इत् । नक्त॑म् । तत् । दिवा॑ । मह्य॑म् । आ॒हुः॒ । तत् । अ॒यम् । केतः॑ । हृ॒दः । आ । वि । च॒ष्टे॒ ।
शुनः॒शेपः॑ । यम् । अह्व॑त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा॑ । वरु॑णः । मु॒मो॒क्तु॒ ॥

सायणभाष्यम्

तदित्तदेव वरुणविषयं स्तोत्रं नक्तं रात्रौ मह्यं शुनःशेपायाहुः । कर्तव्यत्वेनाभिज्ञाः कथयंति । तथा दिवापि तदेवाहुः । हृदो मदीमनसो निष्पन्नोऽयं केतः प्रज्ञाविशेषोऽपि तदेव कर्तव्यत्वेना वि चष्टे । सर्वतो विशेषेण प्रकाशयति । गृभीतो गृहीतो यूपे बद्धः शुनःशेप एतन्नामको जनो यं वरुणमह्वत् आहूतवान् स वरुणो राजास्मान् शुनःशेपान्मुमोक्तु । बंधान्मुक्तं करोतु ॥ मह्यम् । ङयि चेत्याद्युदात्तत्वम् । आहुः । ब्रुवः । पंचानाम् (पा ३-४-८४) इति ब्रू ञो लट झेरुसादेशो धातोराहादेशश्च । हृदः । पद्दन्नित्यादिना (पा ६-१-६३) हृदयशब्दस्य हृदादेशः । ऊडिदंपदादीति पंचम्या उदात्तत्वम् । शुनःशेपः । शुन इव शेपो यस्येति समासे शुनः शेप पुच्छांगूलेषु संज्ञयां षष्ठ्या अलुग्वक्तव्यः । पा ६-३-२१-४ । इत्यलुक् । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते उभे वनस्पत्यादिषु (पा ६-२-१४०) इति पूर्वेत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । अह्वत् । ह्वेञो लुङि लिपिसिचिचिह्वश्च (पा ३-१-५३) इति च्लेरङादेशः आतो लोप इट च (पा ६-४-६४) इत्याकारलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । गृभीतः । हृग्रहोर्भ इति भत्वम् । सो अस्मान् । प्रकृत्यांतःपादमिति प्रकृतिभावः । मुमोक्तु । बहुलं छंदसीति विकरणस्य श्लुः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५