मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २५, ऋक् १९

संहिता

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।
त्वाम॑व॒स्युरा च॑के ॥

पदपाठः

इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒धि॒ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ ।
त्वाम् । अ॒व॒स्युः । आ । च॒क्रे॒ ॥

सायणभाष्यम्

वरुणप्रघासेष्टिमं मे वरुणेति वारुणस्य हविषोऽनुवाक्या । पंचम्यां पौर्णमास्यामिति खंडे सूत्रितम् । इमं मे वरुण श्रुधि तत्त्वा यामि ब्रह्मणा वंदमानः (आ २-१७) इति ॥

हे वरुण मे मदीयमिमं हवमाह्वानं श्रुधि । शृणु । किंच अद्यास्मिन्दिने मृळय । अस्मान्सुखय । अवस्युः । रक्षणेच्छुरहं त्वां वरुणमाभिमुख्येन चके । शब्दयामि । स्तौमीत्यर्थः ॥ श्रुधि । श्रु श्रवणे । लोटो हिः । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । अन्येषामपि दृश्यत इति संहितायां दीर्घः । अवस्युः । अवस् शब्दात्सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । आ चके । कै गै शब्दे । अस्माल्लिट्यादेचः (पा ६-१-४५) इत्यात्वम् । द्विर्भावचुत्वे । आतो लोप इट च (पा ६-४-६४) इत्याकारलोपः । तिङ्ङतिङ इति निघातः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९