मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २६, ऋक् ९

संहिता

अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् ।
मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥

पदपाठः

अथ॑ । नः॒ । उ॒भये॑षाम् । अमृ॑त । मर्त्या॑नाम् ।
मि॒थः । स॒न्तु॒ । प्रऽश॑स्तयः ॥

सायणभाष्यम्

हे अग्ने अमृत मरणरहिताग्ने अथ कर्मानुष्ठानानंतरं मर्त्यानां मनु ष्याणां नोऽस्माकमस्मत्स्वामिनस्तव चोभयेषां मिथः परस्परं प्रशस्तयः प्रशंसारूपा वाचः संतु । सम्यगनुष्ठितमिति यजमानविषया प्रशंसा । सम्यगनुगृहीतमित्यग्निविषया ॥ अथ । निपातस्य चेति संहितायां दीर्घाः । अमृत । अपादादाविति पर्युदासात्षाष्ठिकमाद्युदात्तत्वम् । मर्त्यानाम् । मृङ् प्राणत्यागे । असिहसीत्यादिना तन्प्रत्ययांतो मर्तशब्दः । तस्माद्भवे छंदसि (पा ४-४-११०) इति यत् यतोऽनाव इत्याद्युदात्तत्वम् । संतु । श्नसोरल्लोपः । प्रशस्तयः । तादौ चेति गतेः । प्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१