मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २७, ऋक् १

संहिता

अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः ।
स॒म्राज॑न्तमध्व॒राणा॑म् ॥

पदपाठः

अश्व॑म् । न । त्वा॒ । वार॑ऽवन्तम् । व॒न्दध्यै॑ । अ॒ग्निम् । नमः॑ऽभिः ।
स॒म्ऽराज॑न्तम् । अ॒ध्व॒राणा॑म् ॥

सायणभाष्यम्

अध्वराणां यज्ञानां सम्राजंतं सम्राट् स्वरूपं स्वामिनमग्निं त्वां नमोभिः स्तुतिभिर्वंदध्यै वंदितुं प्रवृत्ता इति शेषः । अत्र दृष्टांतः । वारवंतं वालयुक्तमश्वं न अश्वमिव । अश्वो यथा वालैर्बाधकान्मशकमक्षिकादीन्परिहरति तथा त्वमपि ज्वालाभिरस्मद्विरोधिनः परिहरसीत्यर्थः ॥ वारवंतम् । मतुपः पित्त्वादनु दात्तत्वम् । घञो ञित्त्वादाद्युदात्तो वारशब्दः । कर्षात्वत इत्यंतोदात्तत्वं व्यत्ययेन न प्रवर्तते । वंदद्यै । वदि अभिवादनस्तुत्योः । इदितो नुम् धातोरिति नुम् । तुमर्थे सेसेनित्यध्यैप्रत्ययः । प्रत्ययस्वरः । सम्राजंतम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरेण स एव । अध्वराणाम् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२