मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २८, ऋक् ८

संहिता

ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑ः सो॒तृभि॑ः ।
इन्द्रा॑य॒ मधु॑मत्सुतम् ॥

पदपाठः

ता । नः॒ । अ॒द्य । व॒न॒स्प॒ती॒ इति॑ । ऋ॒ष्वौ । ऋ॒ष्वेभिः॑ । सो॒तृऽभिः॑ ।
इन्द्रा॑य । मधु॑ऽमत् । सु॒त॒म् ॥

सायणभाष्यम्

अद्यास्मिन्कर्मणि हे वनस्पती उलूखलमुसलरूपौ तौ युवामृष्वेभिर्दर्शनीयैः सोतृभिरभिषवहेतुभिः सह ऋष्वौ दर्शनीयौ भूत्वेंद्रायेंद्रार्थं मधुमत् माधुर्योपेतं सोमद्रव्यं नोऽस्मदीयं सुतम् । अभिषुणुतं ॥ ता । सुपां सुलुगित्याकारः । नो अद्य । प्रकृत्यांतःपादमिति प्रकृतिभावः । वनस्पती । उभयपदप्रकृतिस्वरे प्राप्त आमंत्रितस्येति सर्वानुदात्तत्वम् । प्लुतप्रगृह्या अचि (पा ६-१-१२५) इति प्रकृतिभावः । सुतम् । षुञ् अभिषवे । बहुलं छंदसीति विकरणस्य लुक् । निघातः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६