मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ४

संहिता

अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् ।
वच॒स्तच्चि॑न्न ओहसे ॥

पदपाठः

अ॒यम् । ऊं॒ इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् ।
वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥

सायणभाष्यम्

हे इंद्र अयमु अयमपि दृश्यमानः सोमस्ते त्वदर्थं संपादितः । यं सोमं समतसि सम्यक् सातत्येन प्राप्नोषि । तत्र दृष्टांतः । कपोत इव । यथा कपोताख्यः पक्षी गर्भधिं गर्भधारिणीं कपोतीं प्राप्नोति तद्वत् । तच्चित्तस्मादेव कारणान्नोऽस्मदीयं वच ओहसे । प्राप्नोषि ॥ अतसि । अत सातत्यगमने । कपोत इव । कवेरोतच् पश्च (उ १-६२) इत्योतच् । व्यत्ययेन मध्योदात्तः । गर्भधिम् । गर्भोऽस्यां धीयत इति गर्भधिः । कर्मण्यधिकरणे च (पा ३-३-३९) इति किप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ओहसे । तुहिर् दुहिर् उहिर् अर्दने । व्यत्ययेनात्मनेपदं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८