मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ९

संहिता

अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् ।
यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥

पदपाठः

अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् ।
यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥

सायणभाष्यम्

प्रत्नस्य पुरातनस्यौकसः स्थानस्य स्वर्गरूपस्य सकाशात्तुविप्रतिं बहून्यजमानान्प्रतिगंतारं नरं पुरुषमिंद्रमनु हुवे । अनुक्रमेण कर्मस्वाह्वयामि । यं ते त्वामिंद्रं पितास्मदीयो जनकः पूर्वं पुरा स्वकीयानुष्ठानकाले हुवे । आहूतवान् । तमाह्वयामीति पूर्वत्रान्वयः ॥ ओकसः । नब्विषयस्येत्याद्युदात्तत्वम् । हुवे । ह्वेञ् स्पर्धायां शब्दे च । इट बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । गुणे । प्राप्ते क्ङिति चेति प्रतिषेधः । उवङादेशः । प्रत्ययस्वरेणांतोदात्तत्वम् । पादादित्वादनिघातः । तुविप्रतिम् । तुवीनां बहूनां प्रतिगंतारम् । अत्र प्रतिशब्दो भीमसेनो भीम इतिवत् । प्रतिगंतृशब्दं लक्षयित्वा तद्द्वारा तदर्थं लक्षयति । अतः प्रतिः प्रतिनिधिप्रतिदानयोः (पा १-४-९२) इतिवत्सत्ववचनत्त्वेनानिपातत्वादनव्ययत्वे पूरणगुणेत्यादिना (पा २-२-११) न षष्ठीसमासनिषेधः हुवे । ह्वेञो लिट बहुलं छंदसीति पूर्ववत्संप्रसारणपरपूर्वत्वे । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९