मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ११

संहिता

अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् ।
सखे॑ वज्रि॒न्त्सखी॑नाम् ॥

पदपाठः

अ॒स्माक॑म् । शि॒प्रिणी॑नाम् । सोम॑ऽपाः । सो॒म॒ऽपाव्ना॑म् ।
सखे॑ । व॒ज्रि॒न् । सखी॑नाम् ॥

सायणभाष्यम्

हे सोमपाः सोमस्य पातः सखे सखिवत्प्रिय वज्रिन्वज्रयुक्तेंद्र सखीनां सखिवत्प्रियाणां सोमपाव्नां सोमस्य पातृणामस्माकां शिप्रिणीनां दीर्घाभ्यां हनूभ्यां नासिकाभ्यां वा युक्तानां गवां समूहस्त्वत्प्रसादादस्त्विति शेषः ॥ शिप्रिणी नाम् । ऋन्नेभ्यो ङीबिति ङीप् । तस्य पित्त्वादनुदात्तत्वे सति प्रत्ययस्वरः शिष्यते । सोमपाः । आमंत्रिस्य सति शिष्टत्वादामंत्रिताद्युदात्तत्वम् । सोमपाव्नाम् । आतो मनिन्नित्यादिना वनिप् । अल्लोपोऽनः (पा ६-४-१३४) इत्यनोऽकारस्य लोपः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०