मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् २१

संहिता

व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् ।
अश्वे॒ न चि॑त्रे अरुषि ॥

पदपाठः

व॒यम् । हि । ते॒ । अम॑न्महि । आ । अन्ता॑त् । आ । प॒रा॒कात् ।
अश्वे॑ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥

सायणभाष्यम्

अश्वे व्यापनशीले चित्रे चायनीय अरुषि आरोचमान उषःकालाभिमानिनि देवते तव स्वरूपमांतात्समीपपर्यंतमा पराकाद्दूरपर्यंतं वयं मनुष्या नामन्महि । न बोद्धुं समर्थाः । हि शब्दः प्रसिद्धौ । देवतामहिम्नः पारावारयोरज्ञानमस्मासु प्रसिद्धमित्यर्थः ॥ अमन्महि । मन ज्ञाने । बहुलं छंदसीति बहुलवचनात् श्यनो लुक् । लुङ् लुङ् लृङ् क्ष्वडुदात्तः । हि चेति निघातप्रतिषेधः । अश्वे । अशू व्याप्तौ । अशिप्रुषीत्यादिना क्वन्प्रत्ययः । आमंत्रिताद्युदात्तत्वं ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१