मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् ३

संहिता

अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् ।
धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म् ॥

पदपाठः

अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु॑म् । अ॒ग्निम् । पु॒रु॒ऽप्रि॒यम् ।
धू॒मऽके॑तुम् । भाःऽऋ॑जीकम् । विऽउ॑ष्टिषु । य॒ज्ञाना॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ॥

सायणभाष्यम्

अद्यास्मिन्दिनेऽग्निं वृणीमहे । प्रार्थयामहे । कीदृशम् । दूतं वार्ताहारं वसुं निवासहेतुं पुरुप्रियं बहूनां प्रियं धूमकेतुं धूम रूपध्वजयुक्तं भाऋजीकं प्रसिद्धभासालंकृतम् । भाऋजीकं प्रसिद्धभाः (नि ६-४) इति यास्कवचनं व्युष्टिषूषःकालेषु यज्ञानां यजमानानामध्वरश्रियं यागासेविनं ॥ आद्य । निपातस्य चेति दीर्घत्वम् । पुरूणांप्रियः पुरुप्रियः । समासस्येत्यंतोदात्तत्वम् । धूमकेतुम् । इषियुधींधीत्यादिना (उ १-१४४) धूमशब्दो मक्प्रत्ययांतोंऽतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भाऋजीकम् । ऋज गतिस्थानार्जनोपार्जनेषु । ऋजेश्च (उ ४-२२) इतीकन्प्रत्ययः । कित्त्वस्यानुवर्तनाद्गुणाभावः । भासः प्रकाशस्य ऋजीकः प्रार्जयिता । आद्युदात्तप्रकरणे दिवोदासादीनां छंदस्युपसंख्यानम् । पा ६-२-९१-१ । इति पूर्वपदाद्युदात्तत्वम् । यद्वा । भासोऽर्जुनं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्युष्विषु । उछी विवासे । विवासो वर्जनम् । विशेषेणोच्छ्यंते तमसा वर्ज्यंत इति व्युष्टय उषःकालाः । कर्मणि क्तिन् । तितुत्रेत्यादिनेट् प्रतिषेधः । व्रश्चादिना षत्वे ष्टुत्वम् । तादौ चेति पूर्वपदप्रकृतिस्वरत्वम् । यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । अध्वरिश्रियम् । अध्वरं श्रयत इत्यध्वरश्रीः । क्विब्दचीत्या दिना । उ २ ५७ क्विप्रुत्ययः । तत्सन्नियोगेन संप्रसारणाभावो दीर्घश्च । द्वितीयैकवचनेऽचिश्नुधात्वित्यादिनेयङादेशः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८