मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् ९

संहिता

पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ ।
उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृशः॑ ॥

पदपाठः

पतिः॑ । हि । अ॒ध्व॒राणा॑म् । अग्ने॑ । दू॒तः । वि॒शाम् । असि॑ ।
उ॒षः॒ऽबुधः॑ । आ । व॒ह॒ । सोम॑ऽपीतये । दे॒वान् । अ॒द्य । स्वः॒ऽदृशः॑ ॥

सायणभाष्यम्

हे अग्ने विशां प्रजानां संबंधिनो येऽध्वरा यागास्तेषां पतिः पालकस्त्वं दूतोऽसि हि । देवानां वार्ताहारो भवसि खलु । उषर्बुध उषःकाले प्रबुद्धान् स्वर्दृशः सूर्यदर्शिनो देवानद्यास्मिन्दने सोमपीतये सोमपानार्थमा वह । आभिमुख्येन प्रापय ॥ असि । हि चेति निघातप्रतिषेधः । सोमपीतये । पा पाने । स्थागापापचो भाव इति भावे क्तिन् । घुमीस्थेतीत्वम् । सोमस्य पीतिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । स्वर्दृशः । सुष्ठ्वर्ति गच्छतीति स्वरादित्यः । अर्तेरन्येभ्योऽपि दृश्यंत इति विच् । तं पश्यंतीति स्वर्दृशः । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९