मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् १०

संहिता

अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः ।
असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥

पदपाठः

अग्ने॑ । पूर्वाः॑ । अनु॑ । उ॒षसः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । दी॒देथ॑ । वि॒श्वऽद॑र्शतः ।
असि॑ । ग्रामे॑षु । अ॒वि॒ता । पु॒रःऽहि॑तः । असि॑ । य॒ज्ञेषु॑ । मानु॑षः ॥

सायणभाष्यम्

हे विभावसो विशिष्टप्रकाशनरूपधनवन्नग्ने विश्वदर्शतः सर्वैर्दर्शनीयस्त्वम् । पूर्वा उषसोऽनु अतीतानुषःकालाननुलक्ष्य दीदेथ । दीप्तवानसि । तादृशस्त्वं ग्रामेषु जननिवासस्थानेष्ववितानि । रक्षको भवसि । यज्ञेष्वनुष्ठेयकर्मसु पुरोहितो वेदेः पूर्वस्यां दिश्यवस्थितो मानुषोऽसि । ऋत्विग्यजमानानां मनुष्याणां हितोऽसि ॥ दीदेथ । दीदेशिश्छांदसो दीप्ति कर्मा । आगमानुशासनस्यानित्यत्वादिडभावः । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति वचनाद्द्विर्वचनाभावः । विश्वदर्शतः । विश्वैर्दर्शनीयः । भृमृदृशीत्यादिना दृशेरतच् । मरुद्वृधाधित्वात्पूर्वपदांतोदात्तत्वम् । पा ६-२-१०६-२ । पुरोहितः । पूर्वाधरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययांतः पुरस् शब्दः । तद्धितश्चासर्वविभक्तिरित्यव्ययत्वात् पुरोऽव्ययम् (पा १-४-६७) इति गतिसंज्ञायां सत्यां गतिसमासे गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं ॥ २९ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९