मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् ९

संहिता

प्रा॒त॒र्याव्ण॑ः सहस्कृत सोम॒पेया॑य सन्त्य ।
इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥

पदपाठः

प्रा॒तः॒ऽयाव्नः॑ । स॒हः॒ऽकृ॒त॒ । सो॒म॒ऽपेया॑य । स॒न्त्य॒ ।
इ॒ह । अ॒द्य । दैव्य॑म् । जन॑म् । ब॒र्हिः । आ । सा॒द॒य॒ । व॒सो॒ इति॑ ॥

सायणभाष्यम्

हे सहस्कृत बलेन मथित संत्य फलदातसर्वसो निवासहेतुभूताग्ने इह देवयजनदेशेऽद्यास्मिन्दिने सोमपेयाय सोमपानार्थं प्रातर्याव्णः प्रातरागच्छतो देवान् दैव्यं जनमन्यमपि देवताजनं बर्हिरा सादय । यज्ञं प्रापय ॥ प्रातर्याव्णः । शस्यल्लोपोऽन इत्यकारलोपः । सहस्कृत । सहतेऽभिभवत्यनेनेति सहो बलम् । तेन क्रियत इति सहस्कृतः । ओजःसहोंऽभस्तमसस्तृतीयायाः (पा ६-३-३) इत्यलुगभावश्छांदसः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२