मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् ८

संहिता

अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथः॑ ।
धि॒या यु॑युज्र॒ इन्द॑वः ॥

पदपाठः

अ॒रित्र॑म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू॑नाम् । रथः॑ ।
धि॒या । यु॒यु॒ज्रे॒ । इन्द॑वः ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोर्दिवस्पृथु द्युलोकादपि विस्तीर्णमरित्रं गमनसाधनं नौरूपं सिंधूनां समुद्राणां तीर्थेऽवतरणप्रदेशे विद्यत इति शेषः । रथश्च भूमौ गंतुं विद्यते । इंदवः सोमा धिया भवद्विषयेण कर्मणा युयुज्रे । युक्ता बभूवुः ॥ अरित्रम् । ऋ गतौ । अर्तिलूधूसूखनसहचर इत्रः । दात्तत्वं तीर्थे । तृप्लवनतरणयोः । पातृतुदिवचिरिचिसिचिभ्यस्थक् (उ २-७) इति थक् । ऋूत इद्धातोरितीत्वम् । हलि चेति दीर्घः । युयुज्रे । लिटीरयो रे (पा ६-४-७६) इतीरेचो रेआदेशः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४