मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् १०

संहिता

अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्य॑ः ।
व्य॑ख्यज्जि॒ह्वयासि॑तः ॥

पदपाठः

अभू॑त् । ऊं॒ इति॑ । भाः । ऊं॒ इति॑ । अं॒शवे॑ । हिर॑ण्यम् । प्रति॑ । सूर्यः॑ ।
वि । अ॒ख्य॒त् । जि॒ह्वया॑ । असि॑तः ॥

सायणभाष्यम्

भा उ सूर्यस्य दीप्तिस्त्वंशव उषःकालीनरश्मिसिद्ध्यर्थमभूदु । प्रादुर्भूतृव । सूर्यश्च हिरण्यं प्रति स्वकीयोदयेन हिरण्यसदृशोऽभूत् । अग्निश्चासितः स्वकीयदीप्तेः सूर्यप्रवेशेन स्वयं कृष्णो भूत्वा जिह्वया स्वकीयया ज्वालया व्यख्यत् । प्रकाशितवान् । तस्मादयमश्विनोर्युवरोरागमनकाल इत्यर्थः ॥ अभूत् । भूसुवोस्तिङीति गुणप्रतिषेधः । हिरण्य प्रति । प्रतिः प्रतिनिधिप्रतिदानयोः (पा १-४-९२) इति प्रतेः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते द्वितीया (पा २-३-८) इति द्वितीया । अख्यत् । चक्षिङ् ति व्यक्तायां वाचि । लुङि चक्षिङः ख्या ञऽति ख्या ञादेशः ॥ २४ ॥ १० ,,

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४