मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् ११

संहिता

अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या ।
अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥

पदपाठः

अभू॑त् । ऊं॒ इति॑ । पा॒रम् । एत॑वे । पन्थाः॑ । ऋ॒तस्य॑ । सा॒धु॒ऽया ।
अद॑र्शि । वि । स्रु॒तिः । दि॒वः ॥

सायणभाष्यम्

ऋतस्य सूर्यस्य पारमेतवे रात्रेः पारभूतमुदयाद्रिं गंतुं पंथा मार्गः साधुया समीचीनोऽभूदु । निष्पन्न एव । दिवो द्योतनात्मकस्य सूर्यस्य स्रुतिः प्रसृता दीप्तिर्व्यदर्शि । विशेषेण दृष्वा । तस्मादश्विनौ युवाभ्यामागंतव्यं ॥ एतवे । इण् गतौ । तुमर्थे सेसेनिति तवेन्प्रत्ययः । साधुया । सुपां सुलुगिति विभक्तेर्याजादेशः । आदर्शि । कर्मणि लुङि च्लेश्चिणादेशः । चिणो लुक् (पा ६-४-१०४) इति तशब्दस्य लुक् । स्रुतिः । स्रु गतौ । क्तिच् क्तौ च संज्ञायामिति क्तिच् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५