मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् १

संहिता

अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा ।
तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

पदपाठः

अ॒यम् । वा॒म् । मधु॑मत्ऽतमः । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।
तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रःऽअ॑ह्न्यम् । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥

सायणभाष्यम्

प्रथमाष्टके चतुर्थोऽध्यायः

हे ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारावश्विना अश्विनौ वा युवयोरयं पुरोवर्ती सोमः सुतोऽभिषुतः । कीदृशः । मधुमत्तमोऽतिशयने माधुर्यवान् । तिरोअह्न्यं तिरोभूते पूर्वस्मिन्दिनेऽभिषुतं तं सोमं पिबतम् । दाशुषे हविर्दत्तवते यजमानाय रत्नानि रमणीयानि धनानि धत्तम् । प्रयच्छतं ॥ वाम् । युष्मदस्मदोः षष्ठी चतुर्थीद्वितीयास्थ योर्वांनावौ (पा ८-१-२०) इति षष्ठीद्विवचनस्य वामादेशः । स चानुदात्तः । मधुमत्तमः । मन ज्ञाने । मन्यत इति मधु । फलिपाटनमीत्यादिनोप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । धकारश्चांतादेशः । अतिशयेन मधुमान् मधुमत्तमः । मतुप्तमपोः पित्त्वादनुदात्तत्वे पदस्वर एव शिष्यते । ऋतावृधा । वृधेरंतर्भावितण्यर्थात् क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । तिरो अह्न्यम् । अह्नि भवोऽह्न्यः । भवे छंदसीति यत् । अह्नष्वखोरेव (पा ६-४-१४५) इति नियमान्नस्तद्धित इति टलोपाभावः । सर्वे विधयश्चंदसि विकल्प्यंत इति वचनाद्ये चाभावकर्मणोः (पा ६-४-१६८) इति प्रकृतिभावाभावेऽल्लोपोऽन इत्यकारलोपः । तिरोहितोऽह्न्यस्तिरो अह्न्यः । तिरोऽंतर्धौ (पा १-४-७१) इति गतित्वेन निपातत्वादव्ययत्वे प्रादिसमासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दाशुषे । दाश्वान्साह्वानित्यादिना क्वसुप्रत्ययांतो निपातितः । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः