मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् ३

संहिता

अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा ।
अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥

पदपाठः

अश्वि॑ना । मधु॑मत्ऽतमम् । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ।
अथ॑ । अ॒द्य । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे ऋतावृधा यज्ञस्य वर्धकावश्विनौ मधुमत्तमं सोमं पातम् । पिबतं हे दस्राश्विनौ सोमपानार्थमथास्मदाह्वानानंतरमद्यास्मिन्दिने रथे स्वकीये वसु बिभ्रता अस्मदुपयुक्तं धनं धारयंतौ दाश्वांसं हविष्प्रदं यजमानमुप गच्छतं समीपे प्राप्नुतं ॥ बिभ्रता । डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वादित्वाच्भपः श्लुः । भृञामिदित्यभ्यासस्येत्वम् । शतुर्ङित्त्वाद्गुणाभावे यणादेशः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः