मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् २

संहिता

अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे ।
उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोना॑म् ॥

पदपाठः

अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्व॒ऽसु॒विदः॑ । भूरि॑ । च्य॒व॒न्त॒ । वस्त॑वे ।
उत् । ई॒र॒य॒ । प्रति॑ । मा॒ । सू॒नृताः॑ । उ॒षः॒ । चोद॑ । राधः॑ । म॒घोना॑म् ॥

सायणभाष्यम्

अश्वावतीर्बह्वश्वोपेता गोमतीर्बहुभिर्गोभिर्युक्ता विश्वसुविदः कृत्स्नस्य धनस्य सुष्ठु लंभयित्र्य उषोदेवता वस्तवे प्रजानां निवासाय भूरि प्रभूतं यथा भवति तथा च्यवंत । प्राप्ताः । हे उषोदेवते मा प्रति मामुद्दिश्य सूनृताः प्रियहितवाच उदीरय । ब्रूहि । मघोनां धनवतां संबंधि राधो धनं चोद । अस्मदर्थं प्रेरय ॥ अश्वावतीः । मंत्रे सोमाश्चेंद्रियविश्वदेव्यस्य मतौ (पा ६-३-१३१) इति पूर्वपदस्य दीर्घत्वम् । वा छंदसीति पूर्वसवर्णदीर्घनिषेधस्य पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । चैवंत । च्युङ् गतौ । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । वस्तवे । वस निवासे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ईरय । ईर गतौ कंपने च । हेतुमति णिच् । चोद । चुद संचोदने चौरादिकः । लोट छंदस्यभयथेति शप आर्धधातुकत्वात् णेरनितीति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वान्निघाताभावः । मघोनाम् । षष्ठीबहुवचने श्वयुवमघोनामतद्धिते (पा ६-४-१३३) इति संप्रसारणं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः