मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् १५

संहिता

उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः ।
प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिषः॑ ॥

पदपाठः

उषः॑ । यत् । अ॒द्य । भा॒नुना॑ । वि । द्वारौ॑ । ऋ॒णवः॑ । दि॒वः ।
प्र । नः॒ । य॒च्छ॒ता॒त् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । प्र । दे॒वि॒ । गोऽम॑तीः । इषः॑ ॥

सायणभाष्यम्

हे उषस्त्वमद्यास्मिन्प्रभाते समये यद्यस्मद्भानुना प्रकाशेन दिवोऽंतरिक्ष स्य द्वारौ द्वारभूतौ पूर्वापरदिग्भागावंधकारेणाच्छादिता व्यृणवः विश्लिष्य प्राप्नोषि तस्मात्त्वं नोऽस्मभ्यं छर्दिस्तेजस्वि गृहं प्रयच्छतात् । देहि कीदृशं छर्दिः । अवृकं हिंसकरहितं पृथु विस्तीर्णम् । अपि च हे देवि देवनशीले गोमतीर्बहुभिर्गोभिर्युक्ता इषोऽन्नानि । प्रेत्युपसर्गस्यावृत्तेर्यच्छतादित्यनुषज्यते । प्रयच्छतात् । देहि । त्वदागमनस्यास्मद्रक्षणार्थत्वादस्मदभीष्टं गृहादिकं प्रयच्छेत्यर्थः । छर्दिरिति गृहनाम । छर्दिश्फदिरिति तन्नामसु पाठात् । ऋणवः । ऋण गतौ । छांदसे लङ सिपि तनादित्वादुप्रत्ययः । ततो व्यत्ययेन शपि गुणावादेशौ । शपः पित्त्वादनुदात्तत्वं उप्रत्ययस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । दिवः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । प्र नः । उपसर्गाद्बहुलमिति बहुलवचनान्नसोणत्वाभावः । यच्छतात् । दाण दाने । शपि पाघ्रेत्यादिना यच्छादेशः । अवृकम् । नास्ति वृकोऽस्मिन्निति बहुव्रीहौ न ञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । पृथु । प्रथ प्रख्याने । प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च (उ १-२९) इति कुप्रत्ययः संप्रसारणं च छर्दिरिति गृहनाम । उछृदिर् दीप्तिदेवनयोः अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः । (उ २ । १०९) इतीसि प्रत्ययः । लघूपधगुणः । प्रत्ययस्वरः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः