मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४९, ऋक् २

संहिता

सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् ।
तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥

पदपाठः

सु॒ऽपेश॑सम् । सु॒खम् । रथ॑म् । यम् । अ॒धि॒ऽअस्थाः॑ । उ॒षः॒ । त्वम् ।
तेन॑ । सु॒ऽश्रव॑सम् । जन॑म् । प्र । अ॒व॒ । अ॒द्य । दु॒हि॒तः॒ । दि॒वः॒ ॥

सायणभाष्यम्

हे उषस्त्वं यं रथमध्यस्थाः अधितिष्ठति । कीदृशं रथम् । सुपेशसं शोभनावयवं शोभनरूपयुक्तम् । पेतः कृशनमिति तन्नामसु पाठात् । सुखं शोभनेन खेनाकाशेन युक्तम् । विस्तृतमित्यर्थः । यद्वा । सुखहेतुभूतम् । अथवा सुखमिति क्रियाविशेषणम् । सुखं यथा भवति तथेत्यर्थः । हे दिवो दुहितर्द्युलोकसकाशादुत्पन्न उषोदेवते तेन रथेनाद्यास्मिन्काले सुश्रवसं शोभनहविर्युक्तं जनं यजमानं प्राव । प्रकर्षेण गच्छ ॥ सुपेशसं पिश अवयवे । अस्मादसुन्प्रत्ययः । नित्त्वादाद्युदात्तः पेशस्शब्दः । शोभनं पेशो यस्यासौ सुपेशाः । आद्युदात्तं द्वृच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अध्यस्थाः । तिष्ठतेश्चंदसि लुङ् लङ् लिट इति वर्तमाने लुङि गातिस्थेति सिचो लुक् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । तेन अन्येषामपि दृश्यत इति संहिता यां दीर्घः । सुश्रवसम् । श्रव इत्यन्ननाम । श्रूयत इति सतः । नि १०-३ । इति यास्कः । सुपेशसमितिवदुत्तरपदाद्युदात्तत्वम् । अव । अव रक्षणगतिप्रीतितृप्तीत्युक्तत्वादत्रावतर्गत्यर्थः । दुहितर्दिवः परमपि छंदसीति षष्ठ्यंतस्य पूर्वामंत्रितांगवद्भावे सति पदद्वयसमुदायस्याष्वमिकं सर्वानुदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः