मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् १

संहिता

अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥

पदपाठः

अ॒भि । त्यम् । मे॒षम् । पु॒रु॒ऽहू॒तम् । ऋ॒ग्मिय॑म् । इन्द्र॑म् । गीः॒ऽभिः । म॒द॒त॒ । वस्वः॑ । अ॒र्ण॒वम् ।
यस्य॑ । द्यावः॑ । न । वि॒ऽचर॑न्ति । मानु॑षा । भु॒जे । मंहि॑ष्ठम् । अ॒भि । विप्र॑म् । अ॒र्च॒त॒ ॥

सायणभाष्यम्

दशमेऽनुवाके सप्त सूक्तानि । तत्राभि त्यमिति पंचदशर्चं प्रथमं सूक्तम् । अत्रेतिहासमाचक्षते अंगिरा इंद्रसदृशं पुत्रमात्मनः कामयमानो देवता उपासां चक्रे । तस्य सव्याख्येन पुत्ररूपेणेंद्र एव स्वयं जज्ञे जगति मत्तु ल्यः कश्चिन्मा भूदिति । स सव्य आंगिरासोऽस्य सूक्तस्य ऋषिः । चतुर्दशीपंचदश्यौ त्रिष्टुभौ । त्रिष्टुबंतस्य सूक्तस्य शिष्टा जगत्य इति परिभाषयावशिष्टास्त्रयोदशर्चो जगत्यः । इंद्रो देवता । तदेतत्सर्वमनुक्रमण्यामुक्तम् । अभि त्यं पंचोना सव्यो द्वित्रिष्टुबंतमंगिरा इंद्रतुल्यं पुत्रमिच्छन्नभ्यध्यायत्सव्य इतींद्र एवास्य पुत्रोऽजायतेति ॥ अतिरात्रे प्रथमो रात्रिपर्याये होतुः शस्त्र इदं सूक्तं शंसनीयम् । अतिरात्रे पर्यायाणामिति खंडे सूत्रितम् । अभित्यं मेषमध्वर्यवो भरतेंद्राय सोममिति यज्या (आ ६-४) इति । गवामयनस्य मध्य भूते विषुवत्संज्ञ केऽहन्यपि निष्केवल्य इदं सूक्तं शंसनीयम् । तथा च सूत्रितम् । यस्तिग्मशृंगोऽभि त्यं मेषमिंद्रस्यनु वीर्याणीत्येतस्मिन्नैंद्रीं निविदं शस्त्वा । अ ८-६ । इति ॥

त्यं प्रसिद्धं मेषं शत्रुभिः स्पर्धमानम् । यद्वा । कण्वपुत्रं मेधातिथिं यजमानमिंद्रो मेषरूपेणागत्य तदीयं सोमं पपौ । स ऋषिस्तं मेष इत्यवोचत् । अत इदानीमपि मेष इतींद्रोऽभिधीयते । मेधातिथेर्मेषेति सुब्रह्मण्यमंत्रैकदेशस्य व्याख्यानरूपं ब्राह्मणमेवमाम्नायते । मेधातिथिं हि कण्वायनिं मेषो भूत्वाजहारेति । आगत्य सोममपहृतवानित्यर्थः । पुरुहूतं पुरुभिर्यजमानैराहूतं ऋग्मियमृग्भिर्विक्रियमाणम् । स्तूयमानमित्यर्थः । स्तुत्या हि देवता विक्रियते । यद्वा । ऋग्भिर्मियते शब्द्यत इति ऋग्मीः । तम् । वस्वो अणवं धनानामावासभूमिं एवंगुणविशिष्टमिंद्रं हे स्तोतारो गीर्भिः स्तुतिभिरभि मदत । आभिमुख्येन हर्षं प्रापयत । यस्येंद्रस्य कर्माणि मानुषा मनुष्याणां हितानि विचरंति विशेषेण वर्तंते । तत्र दृष्टांतः । द्यावो न । यथा सूर्यरश्मयः सर्वेषां हितकराः । भुजे भोगा मंहिष्ठमतिशयेन प्रवृद्धं विप्रं मेधाविनं तथाविधमिंद्रमभ्यर्चत । अभिपूजयत ॥ मेषं मिष स्पर्धायाम् । इगुपधलक्षणे के प्राप्ते देवसेनमेषादयः पचादिषु द्रष्टव्या इति वचनादच् प्रत्ययः । ऋग्मियम् । तस्य विकार इत्यर्थः एकाचो नित्यं मयटमिच्छंति । का ४-३-१४४ । इति मयट् प्रत्ययः । अकारस्येकारश्छांदसः । प्रत्ययस्वरः । यद्वा । माङ् माने शब्दे च । ऋग्भर्मियत इति ऋग्मीः । क्विपि वलि लोपात्पूर्वमेव परत्वात् घुमास्थेतीत्वम् । अचि श्नुधात्वित्यादिनेयङादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । मदत । मदी हर्षे । हेतुमिति णिच् । मदी हर्षग्लपनयोरिति घटादिषु पाठात् हर्षार्थे वर्तमानस्य घटादयो मितः । धा । १९-१ । इति मित्त्वे सति मितां ह्रस्वः (पा ६-४-९२) इति ह्रस्वत्वम् । लोण्मध्यमपुरुषबहुवने शपि च्छंदस्युभयथेत्यार्धधातुकत्वात् णेरनिटीतिणिलोपः । तशब्दस्य सार्वधातुकमपिदिति ङित्व्वे ऋचि तुनुघमक्षुतङ् कुत्रोरुष्याणामिति दीर्घः । वस्वः । ङस्यागमानुशासनस्यानित्यत्वान्नु मभावः । जसादिषु च्छंदसि वावचनम् । पा ७-३-१०९-१ । इति वचनात् घेर्ङुति (पा ७-३-१११) इति गुणाभावे यणादेशः । अर्णवम् । अर्णं उदकमस्मिन्नस्तीत्यर्णवः समुद्रः । अर्णसो लोपश्च । का ५-२-१०९-३ । इति मत्वर्थीयो वप्रत्ययः सलोपश्च । तेन शब्देन जलाश्रयवाचिनाश्रयमात्रं लक्ष्यते । प्रत्ययस्वरः । विचरंति । चर गत्यर्थः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गतिरनुदात्ता । यद्वृत्तयोगादनिघातः । मानुषा । शेश्चंदसि बहुलमिति शेर्लोपः । भुजे । भुज पालनाभ्यवहारयोः । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मंहिष्ठम् । महि वहि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्विति तृलोपः । नित्त्वादाद्युदात्तत्वम् । अर्चक । अर्च पूजायाम् । भौवादिकः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः