मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् २

संहिता

अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥

पदपाठः

अ॒भि । ई॒म् । अ॒व॒न्व॒न् । सु॒ऽअ॒भि॒ष्टिम् । ऊ॒तयः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राम् । तवि॑षीभिः । आऽवृ॑तम् ।
इन्द्र॑म् । दक्षा॑सः । ऋ॒भवः॑ । म॒द॒ऽच्युत॑म् । श॒तऽक्र॑तुम् । जव॑नी । सू॒नृता॑ । आ । अ॒रु॒ह॒त् ॥

सायणभाष्यम्

ऊतयोऽविशारो रक्षितारो दक्षासो दक्षयितारः प्रवर्धयितार ऋुभवः । उरु भांतीति नैरुक्तव्युत्पत्त्या ऋुभवोऽत्र मरुत उच्यंते । एवंभूता मरुत इंद्रमभीमवन्वन् । आभिमुख्येन खल्वभजंत । वृत्रेण सह युध्यमानमिंद्रं सर्वे देवाः पर्यत्यजन् । मरुतस्तु तथा न पर्यत्याक्षुः । तथा चाम्नास्यते । विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिंद्र सख्यं ते अस्तु । ऋग्वे ८-९६-७ । इति । ब्राह्मणेऽप्याम्नातम् । मरुतो हैनं नाजहुः । ऐ ब्रा ३-२० । इति । कीदृशमिंद्रं स्वभिष्टिं शोभनाभ्येषणवंतम् । शोभनाभिगमनमित्यर्थः । अंतरिक्षप्राम् । अंतरिक्षं द्युलोकं स्वतेजसा प्राति पूरयतीत्यंतरिक्षप्राः । द्वादशस्वादित्ये ष्टिंद्रस्य विद्यमानत्वात् । शाखांतरेऽपि श्रूयते । तस्या इंद्रश्च विवस्वाग् श्चाजायेताम् । तै ब्रा १-१-९-३ । इति । इंद्रश्च विवस्वांश्चेत्येते इति च । तविषीभिरावृतम् । तविषीति बलनाम । तविषी शुष्ममिति तन्नामनु पाठात् । बलैरावृतम् । अति बलिनमित्यर्थः । अत एव मदच्युतं शत्रूणां मदस्य गर्वस्य च्यावयितारम् । किं च शतक्रतुं शतसंख्यानां क्रतूनामाहर्तारं बहुविधकर्माणं वा । पूर्वोक्त तमिंद्र जवनी वृत्रवधं प्रति प्रेरयित्री सूसृता तैर्मरुद्भिः प्रयुक्ता प्रहर भगवो जहि वीरयस्व । ऐ ब्रा ३-२० । इति ब्राह्मणोक्तरूपा प्रियसत्यात्मिका वागप्यारुहत् । आरूढवती । वृत्रवधं प्रति सापि वागिंद्रस्योत्साहकारिण्यभूदित्यर्थः ॥ अवन्वन् । वन षण संभक्तौ । लङि तपि प्राप्ते व्यत्ययेनोप्रत्ययः । स्वभिष्टिम् । इष गतौ । भावे क्तिन्प्रत्ययः । तितुत्रेत्यादिनेट् प्रतिषेधः । एमनादित्वात्पररूपत्वम् । पा ६-१-९४-६ । शोभना अभिष्टयो यस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ऊतयः । अवतेः कृत्य ल्युटो बहुलमिति कर्तरि क्तिन्प्रत्ययः । यद्वा । क्विच् क्तौ च संज्ञायामिति क्तिच् ज्वरत्वरेत्यादिनोट् । चित इत्यंतोदात्तत्वम् । अंतरिक्षप्राम् । प्रा पूरणे । अंतरिक्षं प्राति पूरयतीत्यंतरिक्षप्राः । आतो मनिन्नत्यत्र चशब्दाद्विच् । आवृतं वृञ् वरणे । आव्रियत इत्यावृः । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । दक्षासः । दक्ष वृद्धौ । दक्षंत एभिरिति दक्षाः । करणे घञ् । ञुत्त्वादाद्युदात्तत्वम् । अज्चसेरसुक् । मदच्युतम् । च्युङ् गतौ । अंतर्भावितण्यर्थात् क्विप्चेति क्विप् । ह्रस्वस्य पिति कृतीति तुक् । शतक्रतुम् । शतं क्रतवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवनी । जु इति सौत्रो धातुः । करणे ल्युट् । टड्ढाणञित्यादिना ङेप् । लित्स्वरेण जकारात्परस्योदात्तत्वम् । अरुहत् । अरुहेर्लुङि कृमृदृरुहिभ्यश्चंदसीति च्लेरङादेशः ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः