मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् ४

संहिता

त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रय॒ः पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥

पदपाठः

त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ ।
वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥

सायणभाष्यम्

हे इंद्र त्वमपामुदकानामपिधानापिधानान्याच्छादकान्मेघानपावृणोः । अपावरीष्ठाः । तथा पर्वते पर्ववति पूरयितव्यप्रदेशयुक्ते स्वकीयनिवासस्थाने डानुमत् दानुमतो हिंसायुक्त स्य । यद्वा । दनुरसुरमाता सैव दानुः । तद्वतः । तादृशस्य वृत्रादेर्वसु धनमधारयः । शत्रूञ्जित्वा तदीयं धनमपहृत्य स्वगृहे न्यचिक्षिप इत्यर्थः । यद्वा । दानुमदिति वसुविशेषणं । शोभनदानयुक्तमित्यर्थः । हे इंद्र त्वं यद्यदा शवसा बलेन वृत्रं त्रयाणां लोकानामावरीतारं । तथा च शाखांतरे समाम्नातं । यदिमान् लोकानवृणोत्तद्वृत्रस्य वृत्रत्वं । तै सं २-४-१२-२ । इति । अहिं आ समंताद्धंतारं । तथा च वाजसनेयिनः समामनंति । सोऽग्नीषोमावभिसंबभूव सर्वां विद्यां सर्वं यशः सर्वमन्ना दृं सर्वां श्रियं स यत्सर्वमेतत्समभवत्तस्मादहिरिति । एवंभूतमसुरमवधीः वधं प्रापितः । आदित् अनंतरमेव दिवि द्युलोके दृशे द्रष्टुं सूर्यमारोहयः । वृत्रेणावृतं सूर्यं तस्माद्वृत्रादमूमुच इत्यर्थः । अपां । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं । अपिधाना । अपिधीयत आच्छाद्यत एभिरित्यपिधानानि । करणे लुट् । रितीति प्रत्ययात्पूर्वस्य धात्वाकारस्योदात्तत्वं । तत एकादेशस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वं । सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घत्वं । अधारयः । पादादित्वान्निघाताभावः । पर्वते । पर्ववान् पर्वतः । पर्व पुनः पृणातेः प्रीणातेर्वा नि १-२० । इति यास्कः । दानुमत् । दो अवखंडन इत्यस्माद्वा दाभाभ्यां नुरित्यौणादिको नुप्रत्ययः । असुरविशेषणत्वे सुपां सुलुगिति षष्ठ्या लुक् ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः