मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् ९

संहिता

अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्र॑ः श्न॒थय॒न्नना॑भुवः ।
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत॒ः स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥

पदपाठः

अनु॑ऽव्रताय । र॒न्धय॑न् । अप॑ऽव्रतान् । आ॒ऽभूभिः॑ । इन्द्रः॑ । श्न॒थय॑न् । अना॑भुवः ।
वृ॒द्धस्य॑ । चि॒त् । वर्ध॑तः । द्याम् । इन॑क्षतः । स्तवा॑नः । व॒म्रः । वि । ज॒घा॒न॒ । स॒म्ऽदिहः॑ ॥

सायणभाष्यम्

य इंद्रोऽनुव्रतायानुकूलकर्मणे यजमानायापव्रतानपगतकर्मणो यजमानान् रंधयन् हिंसयन्वशीकुर्वन्वा तथाभूभिः । आभिमुख्येन भवंतीत्याभुवः स्तोतारः । तैरनाभुवस्तद्विपरीतात् श्नथयन्हिंसयन्वर्तते । वृद्धस्य चिद्वर्धतः पूर्वं वृद्धस्यापि पुनर्वर्धमानस्य द्यामिनक्षतः स्वर्गं व्याप्नुवतस्तस्येंद्रस्य स्तवानः स्तुतिं कुर्वाणो वम्रः स्तुत्युद्गिरणशील एतत्संज्ञक ऋुषिः संदिहः सम्यगुपचिता वल्मीकवपा वि जघान । इंद्रेण परिहृतांतरायः सन्पृथिव्याः सारभूतं वल्मीकवपालक्षणं यज्ञ संभारमाहार्षीदित्यर्थः । तथा च शाखांतरे समाम्नातम् । यद्वल्मीकवपासंभारो भवति ऊर्जमेव रसं पृथिव्या अवरुंधे । तै ब्रा १-१-३-४ । इति ॥ अनुव्रताय । अनुकूलं व्रतं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं श्नथयन् । श्नथ हिंसायाम् । णिचि घटादित्वान्मित्त्वे मितां ह्रस्वं इति ह्रस्वत्वम् । वर्धतः । व्यत्ययेन परस्मैपदम् । इनक्षतः । नक्ष गतौ । इकारोपजनश्छांदसः । यद्वा । इनक्षतिर्गत्यर्थः । प्रकृत्यंतरमन्वेष्टव्यम् । स्तवानः । सम्यानच् स्तुवः (उ २-८९) इति स्तौतेर्बहुलवचनान्निरुपपदादस्यानच् प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । जघान । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हंतेर्हकारस्य कुत्वम् । संदिहः । दिह उपचये । कृत्यल्युटो बहुलमिति बहुलवचनात्कर्मणि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०