मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् १३

संहिता

अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥

पदपाठः

अद॑दाः । अर्भा॑म् । म॒ह॒ते । व॒च॒स्यवे॑ । क॒क्षीव॑ते । वृ॒च॒याम् । इ॒न्द्र॒ । सु॒न्व॒ते ।
मेना॑ । अ॒भ॒वः॒ । वृ॒ष॒ण॒श्वस्य॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ ॥

सायणभाष्यम्

अत्रेयमाख्यायिका । अंगराजः कस्मिंश्चिद्दिवसे स्वकीयाभिर्योषिद्भिः सह गंगायां जलक्रीडां चक्रे । तस्मिन्समये दीर्घतमा नाम ऋषिः स्वभार्यया पुत्रभृत्यादिभिश्च दुर्बलत्वात्किमपि कुर्वन्न शक्नोतीति द्वेषेण गंगामध्ये प्रचिक्षिपे । स च ऋषिः केनचित्प्लवेनांगराजस्य क्रीडादेशं प्रति समाजगाम । स च राजा सर्वज्ञं तमृषिमगत्य प्लवादवतार्यैवमवोचत् । हे भगवत् मम पुत्रो नास्ति । एषा महिषी । अस्यां कंचित्पुत्रमुत्पादयेति । स च तथेत्यब्रवीत् । सा महिषी तु राजानं प्रति तथेत्युक्त्वायं वृद्धतरो जुगुप्सितो मम योग्यो न भवतीति बुध्ध्या स्वकीयामुशिक्संज्ञां दासीं प्राहैषीत् । तेन च सर्वज्ञेन ऋषिणा मंत्र पूतेन वारिणाभ्युक्षिता सती सैव ऋषिपत्नि बभूव । तस्यामुत्पन्नः कक्षीवान्नाम ऋषिः स एव राज्ञः पुत्रोऽभूत् । स च बहुविधेन राजसूयादिनेजे । तस्मै राज्ञे तत्कृतैर्यज्ञैः परितुष्ट इंद्रो व्यचयाख्यां तरुणां योषितं प्रादात् । अयमर्थः । पूर्वार्धे प्रतिपाद्यते ॥ हे इंद्रो व्यचयाख्यां तरुणां योषितां प्रादात् । अयमर्थः पूर्वार्धे प्रतिपाद्यते ॥ हे इंद्र त्वं महते प्रवृद्धाय वचस्यवे श्वदीयस्तोत्रलक्षणं वच आत्मन इच्छते सुन्वते श्वदेवताकेषु यज्ञेषु सोमाभिषवं कुर्वते कक्षीवत एतन्नाम्ने राज्ञे वृचयां वृचयाख्यामर्धामल्पाम् । युवतिमित्यर्थः । एवंभूतां स्त्रियमददाः । तथा सुक्रुतो शोभनकर्मन् शोभनप्रज्ञ वा हे इंद्र त्वं वृषणश्वस्मैतदाख्यस्य राज्ञो मेनाभवः । मेना नाम कन्यकाभूः । तथा च शाट्यायनिभिः सुब्रह्मण्यामंत्रै कदेशव्याख्यानरूपम् । ब्राह्मणमेवमाम्नायते । वृषणश्वस्य मेन इति वृषणत्वस्य मेना भूत्वा मघवा कुल उवासेति । तां च प्राप्तयौवनां स्वयमेवेंद्रश्चकमे । तथा च तांडिभिराम्नातम् । वृषणश्वस्य मेना नाम दुहितास । तामिंद्रश्चकम इति । अत उक्तरूपाणि यानि कर्माणि त्वया कृतानि ते ता त्वदीयानि तानि विश्वेत् सर्वाण्येव सवनेषु यज्ञेषु प्रवाच्या । प्रकर्षेण वक्तव्यानि । स्तुतिभिः स्तोतव्यानीत्यर्थः ॥ महते । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । वचस्यवे । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः कक्षीवते । अश्वबंधनहेतवो रज्जवः । कक्ष्याः । कक्षीवान् कक्ष्यावान् नि ६-१० । इति यास्कः । आसंदीवदष्ठीवच्चक्रीवत्कक्षीवत् (पा ८-२-१२) इति संप्रसारणं मतुपो वत्वं संज्ञायां निपात्यते । मेनेति स्त्रीनाम । मेना ग्ना इति पाठात् । मन ज्ञाने । मन्यते गृहकृत्यं जानातीति मेना । पचाद्यच् । नशिमन्योरलिट्येश्वं वक्तव्यम् । पा ६-४-१२०-५ । इत्येत्वम् । वृषादिर्द्रष्टव्यः । मेना । मानयंत्येना इति यास्कः ि ३-२१ । सवनेषु सवनमिति यज्ञनाम । सूयतेऽभिषूयत एष्वित्यधिकरणे ल्युट् । प्रवाच्या । वच परिभाषणे । ण्यति यजयाचरुचप्रवचर्चश्च (पा ७-३-६६) इति कुत्वाभावः । तित्स्वरितेप्राप्ते व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वाचयतेरचो यदिति यश् । यतोऽनाव इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११