मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् ५

संहिता

समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥

पदपाठः

सम् । इ॒न्द्र॒ । रा॒या । सम् । इ॒षा । र॒भे॒म॒हि॒ । सम् । वाजे॑भिः । पु॒रु॒ऽच॒न्द्रैः । अ॒भिद्यु॑ऽभिः ।
सम् । दे॒व्या । प्रऽम॑त्या । वी॒रऽशु॑ष्मया । गोऽअ॑ग्रया । अश्व॑ऽवत्या । र॒भे॒म॒हि॒ ॥

सायणभाष्यम्

हे इंद्र राया धनेन वयं सं रभेमहि । संगच्छेमहि ॥ तथेषान्नेन सं रभेमहि । तथा वाजेभिर्बलैः सं रभेमहि । कीदृशैर्वाजैः । पुरुश्चंद्रैः पुरूणां बहूनामाह्लादकैः अभिद्युभिरभितो दीप्यमानैः । किंच देव्या द्योतमानया प्रमत्या त्वदीयया प्रकृष्टबुद्ध्या सं रभेमहि । कीदृश्या । वीरशुष्मया । वीरं विशेषेण शत्रूणां क्षेपणसमर्थं शुष्मं बलं यस्याः सा तथोक्ता । गो अग्रया । स्तोतृभ्यो दानार्थमग्रे प्रमुखत एव गावो यस्याः सा तथोक्ताः । आश्वावत्याश्वैरुपेतया ॥ राया । ऊडिदमित्यादिना । विभक्तेरुदात्तत्वम् । पुरुश्चंद्रैः । ह्रस्वाच्चंद्रोत्तरपदे मंत्र इति सुट् । श्चुत्वेन शकारः । समासस्वरः । अभिद्युभिः । अभिगता द्यौर्दीप्तिर्येषाम् । आत्र दिव्यशब्दो दीप्तिं लक्षयति । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । देव्या । उदात्तयण इति विभक्तेरुदात्तत्वम् । प्रमत्यातादौ नीतिति गतेः प्रकृतिस्वरत्वम् । उत्तरयोर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सर्वत्र विभाषा गोः । पा सू ६-१-१२२ । इति गोअग्रयेत्यत्र प्रकृतिभावः । अश्ववत्या । मंत्रे सोमाश्वेंद्रियेति मतुपि दीर्घत्वं ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५