मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् २

संहिता

अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि ।
यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥

पदपाठः

अर्च॑ । श॒क्राय॑ । शा॒किने॑ । शची॑ऽवते । शृ॒ण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तु॒हि॒ ।
यः । धृ॒ष्णुना॑ । शव॑सा । रोद॑सी॒ इति॑ । उ॒भे इति॑ । वृषा॑ । वृ॒ष॒ऽत्वा । वृ॒ष॒भः । नि॒ऽऋ॒ञ्जते॑ ॥

सायणभाष्यम्

हे अध्वर्यो शाकिने शक्तियुक्ताय शचीवते प्रज्ञावते शक्रायेंद्रायार्च । एवंविधमिंद्र पूजय । किंच स्तुतीः शृण्वंतं समीचीनेयं स्तुतिरिति जानंतं तमिंद्रं महयन् पूजयन्नभिष्टुहि । अभिमुख्येन तस्य स्तोत्रं कुरु य इंद्रो धृष्णुना शत्रूणां धर्षकेण शवसा बलेनोभे रोदसी द्यावापृथिव्यौ न्यृंजते नितरां प्रसाधयति । ऋंजतिः प्रसाधनकर्मा (नि ६-२१) इति यास्कः । स इंद्रो वृषा सेचनसमर्थो वृषत्वा वृषत्वेनानेनैव सेचनसामर्थ्येन वृषभो वर्षिता कामानां यद्वा वृष्ट्युदकानां ॥ अर्च । शपः पित्त्वा दनुदात्तत्वे धातुस्वरः । द्व्यचोऽतस्तिङ इति दीर्घत्वम् । शाकिने । शक्तिः शाकः । शक्लृशक्तौ । भावे घञ् । मत्वर्थीय इनिः । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । अभिष्वुहि । स्तौतेरदादित्वाच्छपो लुक् । उपसर्गात्सुनोतीति षत्वम् । ष्वुना ष्वुरिति ष्टुत्वम् । वृषत्वा । सुपां सुलुगिति विभक्तेराकारः । न्यृंजते । ऋजि भृजी भर्जनॆ । इदित्त्वान्नुम् । शपि प्राप्ते व्यत्ययेन शः ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७